Thursday, 28 September 2017

मन की बात’ “मनोगतम्” (प्रसारण-तिथि:- 24.09.2017)

मन की बात[३६]
मनोगतम् [३६]              (प्रसारण-तिथि:- 24.09.2017)

[“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
-       भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः

             भवद्भ्यः सर्वेभ्यः नमस्कारः | आकाशवाणी-माध्यमेन ‘मन की बात’ इति ‘मनोगतम्’ प्रसारयन् वर्ष-त्रयं पूर्णतां नीतवान् | अद्य इदं षट्-त्रिंशत्तमम् आख्यानं वर्तते | ‘मन की बात’ इति प्रसारणं हि, भारतस्य सकारात्मक-शक्त्या, देशस्य प्रत्येकमपि कोणेषु संभरिताभिः भावनाभिः, इच्छाभिः, अपेक्षाभिः, कुत्रचिच्च परिदेवनैः, समुच्छलद्भिः जनानां मनोभावैः च, साकं मां संयोजितवत् | अमुना प्रसारण-व्याजेन एतैः सर्व-विध-भावैः साकं आत्मानं संयोजयितुम् अद्भुतमेकम् अवसरमहं प्राप्तवान् | नाहं कदापि एतद् अवोचम् यत् इदं हि मम मनोगतं वर्तते | इदं मनोगतं हि देशवासिनां मनोभिः मनोभावैः च सार्धं संपृक्तम् अस्ति | तेषाम् आशाभिः अपेक्षाभिः च साकं संपृक्तं वर्तते | मनकी बात-प्रसारणे यान् विषयान् अहं प्रस्तौमि, ते विषयाः देशस्य प्रायेण प्रत्येकमपि कोणेभ्यः जनैः प्रेषितेषु विविध-विषयेषु प्रायेण अन्यतमान् कांश्चन एव अत्र उपस्थापयितुं प्रभवामि, परञ्च अहन्तु बहु लाभान्वितो भवामि | भवतु नाम ईमेल्-माध्यमं वा दूरभाष-सन्देशः, आहोस्वित् भवतु Mygov, वा NarendraModiApp - इति, एतान् विविधान् विषयान् अहम् अवाप्नोमि | एतेषु अधिसंख्यन्तु मह्यं प्रेरणादायि एव, अधिकतमाः च विषयाः भवन्ति प्रशासन-परिष्कारार्थम् | तेषु कुत्रचित् कानिचित् वैयक्तिकानि परिदेवनानि अपि भवन्ति, कुत्रचिच्च सामूहिक-समस्यायाः कृते ध्यानम् आकृष्यते | तथा च, अहन्तु मासे एकवारमेव अर्ध-होरामितं कालं यापयामि भवद्भिः साकम्, परन्तु जनास्तु त्रिंशद्दिनानि यावत् “मन की बात”- इति विषयमाधृत्य स्व-स्व-मनोगतानि प्रेषयन्ति | 
परिणामत्वेन सर्वकारः अपि संवेदनशीलः सञ्जातः, समाजस्य दूर-सुदूर-वर्त्तिषु स्थलेषु कीदृश्यः शक्तयः वर्तन्ते इति अवगन्तुम्, सहजतया अनुभवितुम्, अवधातुञ्च पार्यते | अत एव, मन-की-बात-प्रसारणस्य त्रयाणां वर्षाणां यात्रेयं देशवासिनां भावानाम्, अनुभूतीनां चैका दीर्घा यात्रा वर्तते | स्याद् एतावति अल्पकाले एव, देशस्य सामान्य-जनानां मनोभावान् अवगन्तुं बोद्धुञ्च यमवसरमहं लब्धवान्, तदर्थं देशवासिनां हार्दं कार्तज्ञ्यमावहामि | “मन-की-बात-प्रसारणे अहं सर्वदा आचार्य-विनोबा-भावे-वर्यस्य तत् वक्तव्यं संधारितवान्, यदनुसारं “अ-सरकारी, असरकारी” भवति - इति आचार्य-भावे सर्वदा कथयति स्म | अहमपि “मन-की-बात”-प्रसारणे अस्य देशस्य जनं केन्द्रीकर्तुं प्रयतितवान् | राजनीतितः एतत् पृथगेव स्थापितम् | तात्कालिकः आवेगः आवेशो वा भवति, तयोः प्रभाव-राहित्येन भूत्वा स्थिरमनसा भवद्भिः साकम् आत्मानं संयोजयितुं प्रयतितवान् | नूनमहं विश्वसिमि यत् साम्प्रतं वर्ष-त्रयानन्तरं समाज-शास्त्रिणः, विश्व-विद्यालयाः, अनुसन्धातृ-विद्वान्सः, सञ्चार-माध्यमानां निष्णाताः च विषयमेनं नूनं विश्लेषयिष्यन्ति | गुणावगुण-जातं विस्तरेण प्रकाशयिष्यन्ति | अपि च, विश्वसिमि यत् एतादृक्-विचार-विमर्शः भविष्यति काले “मन-की-बात”-प्रसारणस्य कृतेsपि अतितरामुपयोगी सेत्स्यति | अत्र अभिनवैका चेतना, नवीना चोर्जा प्राप्स्येते | मया एकदा प्रसारणेsस्मिन् प्रोक्तमासीत् यत् भोजन-समये यावत् खाद्य-वस्तु अपेक्षितमस्ति तावदेव आदेयम्, न किञ्चिदपि अपक्षरणीयम् | परञ्च अनन्तरं मया अवलोकितं यत् देशस्य प्रत्येकमपि कोणेभ्यः अनेकानि पत्राणि प्राप्तानि, नैकानि सामाजिक-संघटनानि, बहवो युवकाः च पूर्वतः एव, अस्मिन् कर्मणि निरताः वर्तन्ते | यत्- किमपि अन्नं स्थाल्यां परित्यक्तं तत्-सर्वं समेत्य तस्य सदुपयोगः कथं स्यादिति कृत्वा कार्यकर्तारः तावन्तो जनाः मम दृष्टि-पथमागताः यत् साम्प्रतं तद्-विचिन्त्य मम मानसं प्रसीदतितराम्, संतोषाधिक्यम्, आनन्द-सन्दोहञ्च अनुभवामि |
            एकदा अहं “मन-की-बात”-प्रसारणे महाराष्ट्रस्य सेवानिवृत्तं शिक्षकं श्री-चन्द्रकान्त-कुलकर्णीं संदर्भितवान्, यो हि षोडश-सहस्र-रूप्यकात्मकात् स्वीय-सेवानिवृत्ति-वेतनात् पञ्च-सहस्र-रूप्यकात्मकानि एक-पञ्चाशन्मितानि उत्तर-दिनयुतानि धनादेश-पत्राणि स्वच्छता-हेतोः दानराशित्वेन प्रादात् | अपि च, ततः परं मया दृष्टं यत् स्वच्छतायै एवंविध-कार्यानुष्ठानाय बहवो जनाः पुरतः समायाताः |
          एकदा अहं हरियाणा-राज्यस्य अन्यतमस्य सरपञ्चस्य ‘selfie with daughter’ इति दुहित्रा साकं स्वीयादत्त-चित्रम् अपश्यम्, विषयोsयम् अहं “मन-की-बात-प्रसारणे सर्वेषां समक्षम् उपस्थापितवान् | सत्वरं पश्यता एव, न केवलं भारते, अपि तु, विश्वस्मिन्नपि विश्वे, ‘selfie with daughter’ इत्येकं बृहदभियानं प्रावर्त्तत | नायं विषयः केवलं सामाजिक-माध्यमानामेव वर्तते | प्रत्येकमपि दुहित्रे नूतन-विश्वासस्य प्रदात्री, अभिनव-गरिम्णः चोद्भावयित्री घटनैषा सिद्धा | प्रत्येकमपि पितरौ अनुभवितुमारभतां यत् स्वीय-दुहित्रा साकं वयमपि स्व-चित्रमानयेम ! प्रत्येकमपि कन्या अनुभवितुमारभत यन् ममापि किमपि विशिष्टं माहात्म्यमस्तीति |    
        विगतेषु दिनेषु भारत-सर्वकारस्य पर्यटन-विभागेन सहोपवेशने आसम् | तदा पर्यटन-समुत्सुकाः जनाः मया सूचिताः यत्ते अतुल्य-भारतस्य पर्यटनार्थं यत्र-कुत्रापि गच्छेयुः, तत्रत्यानि चित्राणि अवश्यं प्रेषयेयुः | लक्षशः चित्राणि, भारतस्य विविध-कोणानां चित्राणि च संप्राप्तानि, तानि पर्यटन-क्षेत्रे कार्यनिरतानां कृते न्यास-निधित्वेन सिद्धानि सन्ति | लघ्वी एव घटना कियत् बृहदाकारयुतम् आन्दोलनं प्रवर्तयितुं प्रभवति - इति तु मया “मन-की-बात”-प्रसारणेन अनुभूतम् | अद्य एवम् अन्वभवम्, यतो हि यदा विचारयन् आसं यत् वर्ष-त्रयं पूर्णम्, तदा विगत-वर्ष-त्रयस्य अनेकाः घटनाः मम मानसे प्रतिभासिताः जाताः | देशोsयं समुचित-दिशं प्रति अग्रेसर्तुं प्रतिपलं सन्नद्धोsस्ति | देशस्य प्रत्येकमपि नागरिकः अन्येषां लाभार्थम्, समाजस्य भद्रत्वाय, देशस्य प्रगतये च यत्किञ्चिदपि शक्यं, तत्कर्तुं समीहते | इदं हि अहं वर्ष-त्रयस्य मम “मन-की-बात ”-प्रसारणस्य अभियानेन देशवासिभ्यः अवगन्तुं, प्रबोद्धुं, शिक्षितुञ्च अपारयम् | कस्यापि देशस्य कृते इदं हि महत्वाधायि-पुञ्जीत्वेन भवति, एका बृहती शक्तिः भवति | हृदयेनाहं देशवासिभ्यः नमामि |
                   एकवारमहं “मन-की-बात”-प्रसारणे खादी-विषयं चर्चितवान् | तथा च, खादी नाम नैव किमपि वस्त्र-जातम् , अपि तु एतत्तु विचार-तन्तु-रूपम् | मया अवलोकितं यदद्यत्वे खादीं प्रति जनानां महती रुचिः प्रवर्धितास्ति | अहञ्च स्वाभाविकतया अकथयं यत् खादीधारिणं भवितुं नाहं साग्रहं कथयामीति | परञ्च यदा अनेक-विधानि पटानि भवन्ति चेत् तदा खादी-पटं कथन्नु भवेत् ? गृहे भवतु नाम आस्तरणम् वा कर-प्रोञ्छनम् वा यवनिका वा तिरस्करिणी | इदमनुभूयते यत् युवप्रसूतिः खादीं प्रति समधिका आकृष्टा वर्तते | खादी-विक्रयः एधितोsस्ति | एतस्मात् कारणाच्च निर्धनस्य गृहे साक्षात् वृत्तितायाः सम्बन्धः संयोजितो जातः | ओक्टोबर-मासे द्वितीय-दिनाङ्कात् खादी-क्रयणे व्यवकलनं प्रदीयते, पर्याप्तं व्यवकलनम् प्राप्यते | पुनरेकवारम् अहं साग्रहं कथयामि यत् खादी-अभियानं यत् प्रवर्तितं तद् वयम् इतः परमपि अग्रेसारयेम प्रवर्धयेम च | खादीं क्रीत्वा निर्धनस्य गृहे दीपावल्याः प्रदीपं प्रज्वालयेम - एतादृशं भावं मनसि निधाय वयं कार्याणि करवाम ! अस्माकं देशस्य निर्धनः अमुना कार्येण शक्तिं प्राप्स्यति, तथा चैतत् अस्माभिः अवश्यमेव करणीयम् | खादीं प्रति जनानां रुचि-संवर्धनात् खादी-क्षेत्रे कार्यनिरतेषु, भारत-सर्वकारे च खादी-सम्बद्धेषु जनेषु नूतनरीत्या विचार-परिशीलनस्य समुत्साहः अपि वर्धितोsस्ति | नवीनं प्रविधिं केन प्रकारेण आनयेम ? उत्पादन-क्षमतां केन प्रकारेण प्रवर्धयेम ? सौर-हस्तवेम-यन्त्राणि केन प्रकारेण प्रयुञ्ज्महि ? प्राचीनं रिक्थं यद्धि विंशतेः पञ्च-विंशतेः त्रिंशतेः च वर्षेभ्यः पिहितं संतिष्ठते, तत् केन प्रकारेण पुनर्जीवितं स्यादिति ?
         उत्तर-प्रदेशे वाराणस्यां सेवापुरे खादी-आश्रमः विगतेभ्यः षड्-विंशति-वर्षेभ्यः पिहितः आसीत्, स च साम्प्रतं पुनर्जीवितो जातः | अत्र अनेकाः प्रवृत्तयः संयोजिताः सन्ति | अनेके जनाः आजीविकायाः अभिनवान् अवसरान् अवाप्नुवन् | कश्मीरे पम्पोर-स्थले खादी-ग्रामोद्योगः स्वीयं निष्क्रियं प्रशिक्षण-केन्द्रं पुनः सक्रियं व्यदधात् | तथा च, क्षेत्रेsस्मिन् अनेकविधं प्रदातुं कश्मीरस्य पार्श्वे सुबहु वर्तते | सम्प्रति अस्य प्रशिक्षण-केन्द्रस्य पुनः कार्याचरणेन नूतनायै प्रसूतये, आधुनिक-रीत्या निर्माण-कार्यानुष्ठानाय, वयनाय, नवानां वस्तूनां संरचनायै च महत्-साहाय्यम् अवाप्स्यते | अहञ्च भद्रतरम् अनुभवामि यत् दीपोत्सवावसरे यदा बृहन्ति नैगम-गृहाणि उपहारान् प्रयच्छन्ति तदा सम्प्रति एतानि खादी-वस्तूनि प्रदातुम् आरभन्त | जनाः अपि अन्योन्यम् उपहारत्वेन खादी-वस्तूनि प्रदातुम् आरब्धवन्तः | निसर्गतः वस्तु-जातं केन प्रकारेण अग्रेसरति - इति वयं सर्वे अनुभवामः |
          मम प्रियाः देशवासिनः ! विगते मासे मन-की-बात-प्रसारणावसरे वयं संकल्पितवन्तः निर्णीतवन्तः च यत् गान्धि-जयन्त्याः पूर्वं पञ्चदश-दिनानि यावत्, अशेष-देशे स्वच्छतायाः उत्सवम् आयोजयिष्यामः | स्वच्छतया साकं प्रत्येकमपि जन-मानसं संयोजयिष्यामः | अस्मदीयाः आदरणीयाः राष्ट्रपति-वर्याः कार्यमिदमारभन्त, तथा च, संपूर्णोsपि देशः संपृक्तो जातः | आबाल-वृद्धाः, भवन्तु नाम पुरुषाः वा महिलाः, भवतु नाम ग्रामः वा नगरम्, प्रत्येकमपि जनः साम्प्रतं अस्य स्वच्छताभियानस्य अङ्गत्वेन कार्याणि आचरति | तथा च, यदाहं कथयामि यत् “संकल्पतः सिद्धि-पर्यन्तम्”, एतत् स्वच्छताभियानं “संकल्पतः सिद्धि-पर्यन्तम्”, केन प्रकारेण अग्रेसरति - इति तु वयं निज-नेत्राभ्यां पश्यामः | प्रत्येकमपि जनः एतत् स्वीकरोति, सहयोगमाचरति, एनत् साकारीकर्तुं यत्-किञ्चिदपि योगदानं विदधाति | अहम् आदरणीयस्य राष्ट्रपतेः कार्तज्ञ्यन्तु  आवहामि एव, युगपदेव, देशस्य प्रत्येकमपि वर्गः एनत् नैजमेव कार्यम् आमन्यत, प्रत्येकमपि जनः अमुना संपृक्तो जातः, भवन्तु नाम ते क्रीडा-जगतः जनाः वा चलचित्र-जगतः कलाकाराः, स्युः वा शिक्षाविदो वा विद्यालयीयाः वा महाविद्यालयीयाः विश्वविद्यालयीयाः वा, भवन्तु नाम कृषकाः वा श्रमिकाः, आहोस्वित् अधिकारिणो वा लिपिकाः, रक्षि-कार्मिकाः वा सैनिकाः - प्रत्येकमपि अमुना साकं संयुक्तः अभवत् | सार्वजनिकेषु स्थानेषु एकप्रकारकः आपीडोsपि समुद्भूतः यत् इतः परं सार्वजनिक-स्थानानि मलीनीक्रियन्ते चेत् जनाः व्याक्षिपन्ति, तत्तत्-स्थलेषु कार्य-नियुक्ताः जनाः अपि एवंप्रकारकम् आपीडम् अनुभवितुमारभन्त | अहमेनत् भद्रत्वाय कल्पयामि | प्रसीदामितराञ्च यत् “स्वच्छता एव सेवा”- इत्यभियानस्य केवलं आरम्भिकेषु चतुर्षु एव दिनेषु प्रायेण पञ्च-सप्तति-लक्षतोsपि अधिकाः जनाः, चत्वारिंशत्-सहस्राधिकान् प्रारम्भिकोपायान् आलक्ष्य कार्य-कलापेषु संलग्नाः अभूवन् | मया अक्षि-लक्ष्यी-कृतं यत् केचन जनाः तु अनारतं कार्याणि कुर्वन्ति, परिणामोन्मुखीनि कर्माणि आचरन्ति, कालेsस्मिन् अपरं तथ्यमेकम् अपि अनुभूतम्, एकं नाम भवति यद् वयं स्वच्छताम् आचरेम, अपरञ्च भवति यद् वयम् सावधानं मालिन्यं नैव प्रसारयेम, परञ्च यदि वयं स्वच्छतां स्वीय-स्वभावत्वेन स्वीकर्तुं वाञ्छेम चेत् एकं  वैचारिकान्दोलनमपि आवश्यकं भवति | अस्मिन् क्रमे “स्वच्छता एव सेवा”- इत्यनया साकं काश्चन स्पर्धाः अपि सम्पन्नाः | सार्ध-द्विकोट्यधिकाः बालाः स्वच्छता-निबन्ध-स्पर्धासु सहभागित्वम् आवहन् | लक्षशो बालाः चित्राणि विरचितवन्तः | स्व-स्व-कल्पनानुसारेण ते स्वच्छता-विषयकाणि चित्राणि निर्मितवन्तः | अनेके जनाः कविताः अलिखन् | एतेषु दिनेषु सामाजिक-सञ्चार-माध्यमेषु अस्मदीयैः लघु-लघुभिः बालकैः प्रेषितानि चित्राणि तानि अहं संप्रेषयामि, संस्थापयामि च, तेषाञ्च गौरवं गायामि | स्वच्छता-सन्दर्भे संचार-माध्यमिकानां कृते कार्तज्ञ्यं प्रकटयितुं न कदापि विस्मरामि | ते पावित्र्य-पुरस्सरम् आन्दोलनमेनत् अग्रेसारितवन्तः | स्व-स्व-पद्धत्या ते संयुक्ताः सञ्जाताः,, अपि च, सकारात्मकं परिवेशं विनिर्मातुं ते सुबहु योगदानं कृतवन्तः, तथा च, अधुनापि ते निज-रीत्या स्वच्छतायाः आन्दोलनस्य नेतृत्वं कुर्वन्ति | अस्माकं देशस्य वैद्युताणविक-सञ्चार-माध्यमानि, मुद्रण-माध्यमानि च कियतीं महतीं सेवां कर्तुं प्रभवन्ति - इति तु “स्वच्छता एव सेवा”- इत्यान्दोलने वयम् अवलोकयितुं शक्नुमः |      
            नातिचिरं केनचिदहं श्रीनगरस्य अष्टादश-वर्षीयस्य युवकस्य बिलाल-डारस्य विषये संसूचितः | भवन्तः एतत् श्रुत्वा प्रसन्न्ताम् अनुभविष्यन्ति यत् श्रीनगर-नगर-निगमः स्वच्छतायाः कृते बिलाल-डारं स्वीय-स्वच्छता-दूतरूपेण संमानितवान् | तथा च, मण्डित-दूतस्य विषयः प्रस्तूयते तदा भवन्तः विचारयन्ति यत् सम्भवतः सः कश्चन चलचित्र-जगतः कलाकारः भवेद् वा क्रीडा-जगतः कश्चन नायको वा भवेत् | मनागपि एवं नास्ति ! बिलाल-डारः विगतेभ्यः पञ्च-षड्भ्यो वर्षेभ्यः अर्थात् स्वीय-द्वादश-त्रयोदश-वर्षीयायुषा स्वच्छता-कार्येषु व्यापृतः अभवत् | एशिया-क्षेत्रस्य बृहत्तमं सरोवरं श्रीनगरं  समीपम्, तत्र भवतु नाम अभिगट्यम् वा अभिगट्य-स्यूतानि, वा प्रक्षिप्ताः कूपिकाः वा प्रकीर्णानि अवकरादीनि वस्तूनि भवन्तु, सः सुतरां सततञ्च स्वच्छी-करोति | एतस्मात् कार्यात् किञ्चिद् धनार्जनमपि करोति, यतो हि तस्य पिता कर्कट-रोग-कारणात् बिलाल-डारस्य अल्पीयसि वयसि एव प्राणान् अत्यजत् | परञ्चायं निज-जीवनम् आजीविकया सहैव स्वच्छतया संयोजितवान् | अनुमानस्यानुसारेण बिलालः वर्षावधौ द्वादश-सहस्राधिक-किलोमितम् अवकरं स्वच्छीकरोति | श्रीनगर-नगर-निगममपि वर्धापयामि यत् अनेन स्वच्छतां प्रति प्राथमिकताधारेण कार्याणि कुर्वन्तं स्वच्छता-दूतरूपेण परिकल्प्य उदाहरणं प्रतिष्ठापितम्, यतो हि श्रीनगरं नाम सुख्यातं पर्यटन-स्थलम्, हिन्दुस्थानस्य प्रत्येकमपि नागरिकः श्रीनगरं गन्तुं नितरां समीहते, तत्र स्वच्छता-विषयः एतावता अवधानेन स्वीक्रियते - इदं हि अवश्यं प्रशस्यं कार्यम् | एतदालक्ष्य अपि अहं प्रसीदामितरां यत् बिलालः न केवलं तैः स्वच्छता-दूतत्वेन सम्मानितः, अपि तु, अस्मै स्वच्छता-कर्मिणे बिलालाय निगमेन साम्प्रतं यानमपि प्रदत्तम्, गण-वेषोsपि उपायनीकृतः, अधुना असौ इतर-स्थानानि अपि गत्वा स्वच्छता-विषये जनान् शिक्षयति, प्रेरयति, प्रोत्साहयति च, परिणामावाप्तिं यावच्च, सततम् अनुवर्तते | वयसा अल्पोsपि बिलाल-डारः स्वच्छतायां रुचिमतां सर्वेषां कृते प्रेरणामूलं वर्तते | अहं बिलाल-डारं भूरिशो वर्धापयामि | 
           मम प्रियाः देशवासिनः ! तथ्यमेतत् अस्माभिः नूनं स्वीकर्तव्यं भविष्यति यत् भावि इतिवृत्तम्, इतिवृत्तस्य कुक्षितः एव जायते, तथा च, यदा इतिवृत्तं सन्दर्भ्यते तदा महापुरुषाणां स्मरणं सहजं भवति | ओक्टोबर-मासो नाम  अस्मदीयानां महापुरुषाणां स्मृति-मासः वर्तते | महात्म-गान्धितः सरदार-पटेल-पर्यन्तम् अस्मिन्नेव ओक्टोबर-मासे एतावन्तः महापुरुषाः अस्माकं समक्षं सन्ति, यैः विंशत्येकविंशयोः शताब्दयोः कृते अस्मभ्यं मार्गदर्शनं कृतम्, अस्मान् सन्नीतवन्तः, देशस्य अस्मिता-रक्षणार्थम् अनेकविधानि कष्टानि सोढवन्तः | ओक्टोबर-मासीये द्वितीय-दिने महात्म-गान्धिनः लाल-बहादुर-शास्त्रिणः च जन्म-जयन्ती वर्तते, अपरतः एकादशे दिनाङ्के जयप्रकाश-नारायणस्य नानाजी-देशमुखस्य च जन्म-जयन्ती अस्ति, तथा च, मासेsस्मिन् पञ्चविंशे दिने पण्डित-दीनदयाल-उपाध्यायस्य जयन्ती वर्तते | अथ च, नानाजी-दीनदयाल-वर्ययोः इदं हि शताब्द-वर्षमपि वर्तते | एतेषां महापुरुषाणां जीवनस्य केन्द्र-बिन्दुः किमासीत् ? एतेषु एकं सामान्यत्वेन अवर्तत, तदासीत् यत् देशस्य कृते जीवनम्, देशस्य कृते चावश्यं किञ्चित् आचरणीयमिति ! केवलम् उपदेश-प्रदानेन एव नैव, अपि तु जीवनाचरण-द्वारा प्रदर्शनीयमिति | महात्म-गान्धी, जयप्रकाश-जी, दीनदयाल-जी चेत्यादयः तादृशाः महापुरुषाः सन्ति, ये प्रशासन-पदेभ्यः अतितरां दूरे स्थित्वा, जनजीवनेन साकं प्रतिपलं यापितवन्तः. संघर्षं कृतवन्तः, तथा च, “सर्वजन-हिताय, सर्व-जन-सुखाय” किञ्चित्-किञ्चित् अनारतम् आचरितवन्तः | नानाजी-देशमुखः राजनीतिकं जीवनं त्यक्त्वा ग्रामोदय-कार्येषु व्यापृतः अभवत्, अथ च, तस्य शताब्द-वर्षस्य आयोजनावसरे, तस्य ग्रामोदय-कार्याणि प्रति आदराभिव्यक्तिः सुतरां स्वाभाविकी एव |
          भारतस्य पूर्व-राष्ट्रपतिः श्रीमान् अब्दुल-कलामः यदा यदा नव-युवभिः संभाषमाणः आसीत् तदा सर्वदैव नानाजी-देशमुखस्य ग्रामीण-विकास-कथाः कुर्वन्नासीत् | सुबहु आदर-पुरस्सरं तस्योल्लेखं कुर्वन् अवर्तत | सः स्वयमपि नानाजी-वर्यस्य इमानि कार्याणि अवलोकयितुं ग्रामाणां दीर्घां यात्राम् अकरोत् |
            दीन-दयालोपाध्यायः अपि, यथा महात्म-गान्धी समाजस्य अन्त्य-प्रान्ते स्थितानां जनानां कृते चिन्तयन्नासीत्, तद्वद् शिक्षया, वृत्तितया च केन प्रकारेण निर्धनानां पीडितानां शोषितानां वञ्चितानां च जीवनं समुन्नेतुं शक्येत इति चर्च्यमाणः अवर्तत | एतेषां सर्वेषामपि महापुरुषाणां स्मरणं हि, तान् प्रति न कश्चन उपकारः | आगामि-मार्ग-प्रदर्शनं स्यात्, भावि-दिग्-बोधश्च भवेदिति कृत्वैव वयं एतान् स्मरामः नमामश्च |
           आगामिनि “मन-की-बात”-प्रसारणे अहम् अवश्यं सरदार-वल्लभ-भाई-पटेल-विषये कथयिष्यामि, परञ्च ओक्टोबर-मासान्ते अशेष-देशे Run for Unity- इति  ‘एक-भारतम् - श्रेष्ठ-भारतम् आमान्यते | देशस्य प्रत्येकमपि नगरे, प्रत्येकमपि पुरे च बृहत्यां मात्रायां Run for Unity-कार्यक्रमाः आयोजनीयाः | अपि च ऋतुरपि तादृशः अनुकूलः येन धावनं सुखदं सुकरञ्च भवति - सरदार-वर्य-सदृशीं लौहशक्तिम् अधिगन्तुम् एतादृक्-धावनमपि परमावश्यकम् | सरदार-पटेलः राष्ट्रमेकसूत्रे संग्रथितवान् | अस्माभिरपि एकतायै धावित्वा एकतामन्त्रः अग्रेसारणीयः |
           वयं नितरां स्वाभाविकतया वदामः यत् विविधतासु एकता नाम भारतस्य विशेषता इति | विविधता-विषयकं गौरवमपि अनुभवामः, परञ्च किं कदाचित् भवन्तः एनां विविधताम् अनुभवितुं प्रायतन्त ? अहं पुनः पुनरपि निज-देशवासिनो वक्तुमीहे, विशेषेण च युवजनान् कथयितुमिच्छामि यत् वयं जागृतावस्थायां वर्तामहे | एतादृक्-भारतस्य विविधताः अनुभवेम ! एताः संस्पृशेम ! आसां सुगन्धञ्च जिघ्रेम ! भवन्तः अवलोकयन्तु ! अस्माकीनस्य आभ्यन्तरीणस्य व्यक्तित्वस्य विकासार्थमपि अस्मदीयस्य देशस्य एताः विशेषताः महत्याः पाठशालायाः कार्याणि इव प्रभवन्ति | अवकाश-दिनानि सन्ति, दीपावल्याः अवसरोsस्ति, अस्मदीये देशे सर्वत्र कुत्रचित् कुत्रचिद् चापि पर्यटनस्य स्वभावोsस्ति जनानाम्, जनाः पर्यटकत्वेन प्रयान्ति, इदञ्च स्वाभाविकमेव | परञ्च कदाचित् चिन्ता भवति यत् वयं अस्मदीयं देशन्तु नैव पश्यामः,  देशस्य विविधताः नैव अवगच्छामः, नैव ईषदपि अवबुद्धामः, केवलं चाकचिक्य-प्रभावेण विदेशानां भ्रमणमेव अस्मभ्यं रोचते | भवन्तः कुर्वन्तु नाम विश्व-भ्रमणम्, काञ्चिदपि विप्रतिपत्तिं नैव धारयामि | परन्तु कदाचित् स्वीय-गृहमपि अवलोकयन्तु ! उत्तर-भारतस्य जनः नैव जानाति यत् दक्षिण-भारते किं किमस्तीति ? पश्चिम-भारतस्य जनो न जानाति यत् पूर्व-भारते किञ्च वर्तते इति ? अस्मदीयोsयं देशः कतिभिः विविधताभिः संभरितोsस्ति !
                महात्म-गान्धी, लोकमान्यः तिलकः, स्वामी विवेकानन्दः, अस्मदीयः पूर्व-राष्ट्रपतिः अब्दुल-कलामः चैतेषां जीवनचरितानि यदा पश्यामः तदा अनुभूयते यत् एतैः यदा भारत-भ्रमणं कृतं तदा ते भारतम् द्रष्टुम् अवगन्तुञ्च, एतदर्थञ्च जीवितुं मर्तुञ्च नूतनां काञ्चिद् प्रेरणाम् अलभन्त | एते सर्वेsपि महापुरुषाः भारतस्य व्यापकं भ्रमणं कृतवन्तः | स्वीय-कार्यारम्भे एव ते भारतम् अवगन्तुं अवबोद्धुञ्च प्रायतन्त | आत्मना आत्मनि एव भारतं जीवितुं प्रयतितवन्तः | किं वयं अस्माकीन-देशस्य विभिन्नानां राज्यानां भिन्नानां समाजानां नाना-समूहानां तेषाञ्च रीति-परम्पराणां परिधान-पानाशनानां मान्यतानां च विद्यार्थित्वेन अवगमन-शिक्षण-जीवनार्थं प्रयतितुं नैव शक्नुमः ?                
              पर्यटने मूल्याभिवृद्धिः तदैव शक्यास्ति यदा वयं केवलं दर्शनार्थि-रूपेण नैव, अपि तु विद्यार्थि-रूपेण तद् अवगन्तुम् अवबोद्धुं निर्मातुञ्च प्रयतेम ! मम नैजः अनुभवः अस्ति | हिन्दुस्थानस्य पञ्च-शताधिक-ग्रामान् गन्तुम् अहम् अवसरान् अवाप्नुवम् | सार्ध-चतुश्शताधिकाः जनपदाः तादृशाः वर्तन्ते, यत्राहं रात्रि-विश्रमम् अकरवम् | तथा चाद्य, यदाहं भारते एतद्दायित्वं निर्वाहयामि, तदा मम तत्कालीनस्य भ्रमणस्य अनुभवाः अतितरां सहायिनो भवन्ति | वस्तूनि अञ्जसा अवगन्तुम् अहं बहु-सौविध्यम् अनुभवामि | भवद्भ्यः साग्रहं निवेदयामि यत् भवन्तः विशाल-भारतस्य “विविधतासु एकता” इति विपुलायाः शक्तेः भाण्डारमनुभवन्तु ! “विविधतासु एकता” इति मात्रं समाघोषः एव नैवास्ति | अत्र “एक-भारतम्, श्रेष्ठ-भारतम्” इति स्वप्नः संनिहितोsस्ति | पानाशनयोः कियन्ति प्रकाराणि सन्ति ! सम्पूर्णेsपि जीवने प्रतिदिनम् एकैकं नूतन-प्रकारकं व्यञ्जनम् अश्नुमहि चेदपि तेषां पुनरावृत्तिः नैव भविष्यति | एषास्ति अस्माकीन-पर्यटनस्य महती शक्तिः ! साग्रहं कथयामि यत् एतेषु अवकाश-दिनेषु भवन्तः केवलं गृहेभ्यः बहिः निर्गच्छेयुः, उताहो  केवलं परिवर्तनार्थं प्रस्थानं कुर्युः इत्येव नैव, किञ्चित् अवगन्तुं प्राप्तुम् अवबोद्धुञ्च अभिलक्ष्य बहिः निर्गच्छन्तु ! भारतम् स्वस्मिन् आत्मसात्कुर्वन्तु ! कोटि-कोटिशो जनानां विविधताः स्वस्मिन् अङ्गीकुर्वन्तु ! एतैः अनुभवैः भवतां जीवनं समृद्धं भविता | भवतां विचार-सरणी विशाला भविता | तथा च, अनुभवेभ्यः महत्तरः शिक्षकः को नाम अन्यो भवितुमर्हति ? सामान्यतया ओक्टोबरतः मार्च-मासीयः कालो हि पर्यटन-दृशा आधिक्येन अनुकूलो भवति | जनाः प्रयान्ति | नूनमहं विश्वसिमि यत् इतः परमपि भवन्तः यदि यास्यन्ति चेत् मम तदभियानम् अग्रेसारयिष्यन्ति | भवन्तः यत्र कुत्रापि यान्तु, स्वीयानुभवान् वितरन्तु, चित्राणि संप्रेषयन्तु, हैश- टैग-#incredibleindia - इत्यत्र भवन्तः चित्राणि अवश्यं प्रेषयन्तु | तत्रत्य-जनैः साकं मेलनं भवति चेत् तेषामपि चित्राणि प्रेषयन्तु | केवलं भवनानां चित्राणि वा प्राकृतिक-सौन्दर्यस्य चित्राणि नैव स्युः, तत्रत्य-जन-जीवनस्य कानिचित् कथ्यानि लिखन्तु | निजयात्रायाः विषये समुचितान् निबन्धान् लिखन्तु | Mygov - इत्यत्र प्रेषयन्तु,  NarendraModiApp - इत्यत्रापि प्रेषयन्तु |  अहं चिन्तयामि यत् भारतस्य पर्यटनं प्रोन्नेतुं किं वयं निज-राज्यस्य उत्तमोत्तमानि सप्त पर्यटन-स्थलानि निश्चेतुं शक्नुमः ? प्रत्येकमपि हिन्दुस्थानी निज-राज्यस्य तानि सप्त उत्तमोत्तमानि स्थलानि अवश्यं अवगच्छेयुः | शक्यते चेत् तदा तानि सप्त-स्थलानि अवश्यं गन्तव्यानि | किं भवन्तः तद्विषयिणीं काञ्चिदपि सूचनां प्रदातुं शक्नुवन्ति ? NarendraModiApp- इत्यत्र तां स्थापयितुं शक्नुवन्ति? #IncredibleIndia - चेत्यत्र स्थापयितुम् अर्हन्ति किमु? भवन्तः पश्यन्तु, अन्यतरस्य राज्यस्य सर्वेsपि जनाः यदि एवं सूचयिष्यन्ति चेत् तदा, अहं प्रशासनाय आदेक्ष्यामि यत् तत् आसां सूचनानां सूक्ष्मेक्षिकया निरीक्षणं कृत्वा कानि वा तानि सप्त तथ्यानि सामान्यत्वेन प्रत्येकमपि राज्यात् अधिगतानि- इति विनिश्चित्य तदाधारेण तेन प्रचार-साहित्यं सन्नद्धीकरणीयम् | अर्थात् जनानाम् अभिप्रायाधारेण पर्यटन-स्थलानां संवर्धनं केन प्रकारेण स्यादिति परिशीलनीयम् | तद्वदेव, भवन्तः सम्पूर्णेsपि देशे यावन्ति स्थलानि अवलोकितवन्तः, तेषु सर्वोत्तमानि यानि भवन्तः परिगणयन्ति, भवन्तः वाञ्छन्ति यत् अवश्यमेव जनाः तत्र गच्छेयुः, नूनम् एतेषां विषये ते अवगच्छेयुः, तर्हि नूनं स्वीय-रुचेः अनुकूलानाम् एतेषां सप्त-स्थानानां विवरणमपि  MyGov- इत्यत्र, NarendraModiApp - चेत्यत्र प्रेषयन्तु | भारत-र्वकारः ताः सूचनाः आधृत्य कार्याणि समाचरिष्यति | एतेषां सर्वोत्तमानां पर्यटन-स्थालानां विषये चल-चित्र-निर्माणम्, दृश्याङ्कनम्, प्रचार-साहित्य-निर्माणम्, तत्-संवर्धनञ्चेत्यादि | भवद्भिः चितानि वस्तूनि प्रशासनम् अवश्यं स्वीकरिष्यति | आगच्छन्तु ! मया साकम् आत्मानं संयोजयन्तु ! ऐषमः ओक्टोबरतः मार्च-मासं यावत् समयम् उपयोक्तुं देशस्य च पर्यटनं संवर्धयितुं भवन्तः अपि विशिष्टाभिकर्तृत्वेन भवितुमर्हन्ति | अहं भवतः निमन्त्रयामि |
              मम प्रियाः देशवासिनः ! मानवरूपेण अहमपि अनेकैः वस्तुभिः प्रभावितो भवामि | तानि ममापि हृदयम् आन्दोलयन्ति | मम मानसमपि गभीरतया प्रभवति | अहमपि परमार्थेन भवादृशः एव मानवः अस्मि | विगतेषु दिनेषु तादृशी एका घटना घटिता यस्याः विषये स्यात् भवन्तः अपि अवगताः स्युः ! महिला-शक्तेः देश-भक्तेः च अतुलनीयोदाहरणं देशवासिभिः अवलोकितम् | भारतीय-सेनाभिः लेफ्टिनेंट-स्वातिः निधिश्चेति वीराङ्गना-द्वयं लब्धम्, एते असामान्ये वीराङ्गने स्तः | स्वातिः निधिः च असामान्ये यतो हि भारत-मातुः सेवां कुर्वन्तौ अनयोः पत्यौ हुतात्मनौ संवृत्तौ | वयं कल्पयितुं शक्नुमः यत् एतावति अल्पे एव वयसि यदा संसारः निराधारो भवति तदा मनःस्थितिः कीदृशी भवति ? परञ्च, हुतात्मनः कर्नल-सन्तोष-महादिकस्य पत्नी स्वाति-महादिकः कठिनामेनां परिस्थितिं सम्मुखी-कुर्वन्ती मनसा निश्चितवती यत् सा भारतीय-सेनासु संप्रवेक्ष्यति | एकादश-मास-पर्यन्तं सा कठिनं परिश्रम्य प्रशिक्षणमवाप्नोत् | तथा च, स्वीय-पत्युः स्वप्नान् पूरयितुं सा निज-जीवनं समार्पयत् | तद्वदेव, निधि-दुबे-इत्यस्याः वीराङ्गनायाः पतिः मुकेश-दुबेः सेनासु नायकत्वेन कार्यनिरतः मातृभूमिं सेवमानः हुतात्मा संवृत्तः | तस्य अर्धाङ्गिनी निधिः मनसि निरणैषीत् यत् सा सेनाभ्यः स्वीय-सेवाः अर्पयिष्यति | प्रत्येकमपि देशवासी अस्मदीयाम् एनां मातृ-शक्तिं प्रति, अस्मदीयाः वीराङ्गनाः च प्रति आदरभावार्पणं कुर्यादिति तु सुतरां स्वाभाविकम् |
           अहमस्मै भगिनी-द्वयाय हृदयेन भूरिशो वर्धापयामि | एते देशस्य कोटि-कोटि-जनानां कृते नूतनां प्रेरणाम्, अभिनवाञ्च चेतनां प्रादत्ताम् | एताभ्यां भगिनीभ्यां भूरिशः अभिनन्दनानि विलसन्तुतराम् |            
           मम प्रियाः देशवासिनः ! नवरात्रोत्सवस्य दीपावल्ल्याः च मध्ये अस्मदीय-युव-प्रसूतेः कृते महान् अवसरः समुपागतोsस्ति | FIFA under-17- इति ऊन-सप्त-दशवर्षीयाणां विश्व-चषक-स्पर्धाः देशे आयोज्यन्ते | दृढं विश्वसिमि यत् सर्वत्र पाद-कन्दुक-क्रीडायाः अनुगुञ्जनं श्रोष्यते | प्रत्येकमपि प्रसूतिः पाद-कन्दुक-क्रीडासु वर्धित-रुचयः भविष्यन्ति |  हिन्दुस्थानस्य न कस्यापि विद्यालयस्य महाविद्यालयस्य वा प्राङ्गणं तादृशं भवेत् यत्र अस्मदीयाः एते नवयुवकाः सततं क्रीडानिरताः न भवेयुः | आगच्छन्तु ! यदा अशेष-विश्वं भारत-भूमौ क्रीडितुं समागच्छति, वयमपि क्रीडां निज-जीवनस्य अभिन्नाङ्गत्वेन स्वीकरवाम !  
मम प्रियाः देशवासिनः ! नवरात्र-पर्व प्रचलति | जनन्याः भगवत्याः दुर्गायाः पूजावसरो लभ्यते | अशेष-परिवेशः पवित्र-सुगन्धेन परिव्यापृतोsस्ति | परितः आध्यात्मिकतायाः परिवेशः, भक्त्युत्सवयोः च वातावरणं समुज्जृम्भते | एतत्-सर्वमपि शक्तेः साधनायाः पर्वत्वेन आमान्यते | कालोsयं शारदीय-नवरात्र-रूपेण अभिज्ञायते | अस्मात् कालादेव शरदर्तोः शुभारम्भो भवति | नवरात्र-पर्वणः शुभेsस्मिन् अवसरे अहं देशवासिभ्यः अनेकशो मङ्गल-कामनाः व्याहरामि, अपि च, भगवतीं पराम्बां प्रार्थयामि यत् देशस्य सामान्य-मानवस्य जीवनस्य आशाकाङ्क्षाणां पूर्तये अस्मदीयोsयं   देशः सर्वदैव नव-नवीनाः समुन्नतीः प्राप्नुयात् | प्रत्येकमपि समाह्वानं संमुखीकर्तुम् अयं समर्थः स्यात् |  देशः द्रुत-गत्या अग्रेसरेत् | द्वाविंशोत्तर-द्विसहस्रतमं वर्षं हि भारतस्य स्वाधीनतायाः पञ्च-सप्तति-वर्ष-पूर्तिः, स्वाधीनतायाः समर्पित-सैनिकानां स्वप्नानां संपूर्तेः प्रयासः, सपाद-शत-कोटि-देशवासिनां संकल्पः,  अनवरत-श्रमः, अपारं पुरुषार्थं साकारीकर्तुं पञ्च-वर्षात्मिकां योजनां निर्मीय वयं अगेसरेम, तथा च, भगवती शक्तिः अस्मभ्यः आशीराशिं प्रदद्यात् | भवद्भ्यः सर्वेभ्यः भूरि भूरि शुभकामनाः | उत्सवम् अपि आयोजयन्तु, उत्साहमपि संवर्धयन्तु | भूरिशो धन्यवादाः !!!
             ----- भाषान्तर-कर्ता -   डॉ. बलदेवानन्द-सागरः
                       


****************************

                                                                                                                                             

Monday, 28 August 2017

‘मन की बात’ “मनोगतम्” प्रसारण-तिथि:- 27.08.2017

मन की बात’ [35]
मनोगतम् [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः !  
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः| आवर्षं स्याद् कश्चन एव दिवसः अवशिष्टः यो हि अस्मदीयेन उत्सवेन सम्पृक्तो नास्ति ! भवन्तः एतदपि जानन्ति एव यद् अस्मदीयाः सर्वेsपि उत्सवाः, सर्वाणि अपि पर्वाणि, प्रकृतेः समय-पत्रकम् अनुसरन्ति | प्रकृत्या साक्षात् संबद्धानि सन्ति | एतेषु अधिसंख्यन्तु साक्षात् कृषकैः श्रमिकैः मत्स्यजीविभिः च संपृक्तानि सन्ति |
      अद्याहं यदा उत्सव-विषये मनोगतं प्रकटयामि तदा सर्व-प्रथमं भवतः सर्वान् “मिच्छामि दुक्कडम” वक्तुमिच्छामि | जैन-समाजे श्वः सम्वत्सरीयं पर्व आयोजयिष्यते | जैन-समाजः भाद्र-मासे पर्युषण-पर्व आमिनोति | पर्युषण-पर्वणः अन्तिमे दिने संवत्सरीयः दिवसो भवति | एषा नाम अद्भुता स्वयम्भूः परम्परा ! संवत्सरीयं पर्व क्षमायाः अहिंसायाः मित्रतायाः च प्रतीक-रूपम् | क्षमा-वाणी-पर्वेति अपरनाम्ना अपि एतत् निगद्यते | अस्मिन् दिने जनाः परस्परं “मिच्छामि दुक्कडम” इति वदन्ति इत्येषास्ति अस्मदीया परम्परा | अस्मदीयेषु शास्त्रेषु तु उक्तमेव- “क्षमा वीरस्य भूषणम् |” क्षमाशीलः वीरो भवति | एषा चर्चा अस्माभिः पूर्वं श्रुता एव, महात्म-गान्धी तु सर्वदैव कथयति स्म- क्षमाकरणन्तु बलिनो जनस्य वैशिष्ट्यं भवति |
              “The Merchant of Venice” - नाम्नि स्वीये नाटके शेक्सपियरः लिखति - “Mercy is twice blest, it blesseth him that gives and him that takes” अर्थात् क्षमाकर्ता क्षमितः चेति द्वयमपि भगवतः आशीर्वादम् अवाप्नोति |
        मम प्रियाः देशवासिनः ! साम्प्रतं हिन्दुस्थानस्य प्रत्येकमपि कोणे गणेश-चतुर्थी-समुत्सवस्य प्रगाढोत्साहः दरीदृश्यते | यदा च, गणेश-चतुर्थी सन्दर्भ्यते तदा सार्वजनिकस्य गणेशोत्सवस्य चर्चा स्वाभाविकी | सपादैक-शत-वर्षेभ्यः पूर्वं लोकमान्यः बाल-गङ्गाधर-तिलकः एनां परम्परां प्रवर्तितवान्, अपि च, सपादैक-शत-वर्षात्मकः कालः स्वाधीनता-प्राप्तेः प्राक्  स्वाधीनतायाः आन्दोलनस्य प्रतीकरूपः सञ्जातः तथा च, स्वाधीनता-प्राप्तेः अनन्तरं समाजिकयोः शिक्षा-चेतनयोः जागृतेः प्रतीकत्वेन प्रवर्तते | दश-दिवसात्मकं गणेश-चतुर्थी-महापर्व एकतायाः समतायाः शुचितायाः च प्रतीकमिति निगद्यते | सर्वेभ्योsपि देशवासिभ्यः गणेशोत्सवस्य भूरिशः मङ्गल-कामनाः |
     सम्प्रति केरळ-राज्ये “ओणम्”-उत्सवः आमान्यते | भारतस्य बहुविधेषु वार्णिकेषु प्रमुखेषु उत्सवेषु ‘ओणम्’ हि केरळस्य अन्यतमः समुत्सवः | पर्वेदं स्वस्य सामाजिकस्य सांस्कृतिकस्य च महत्वस्य कृते सुख्यातम् | ओणम्-पर्व केरळस्य समृद्धं सांस्कृतिकं रिक्थं प्रदर्शयति | एतच्च, समाजे प्रेम-सौहार्दयोः सन्देश-प्रदानेन सह जनानां मनस्सु नवीनम् उत्साहं नूतनाम् आशां अभिनवञ्च विश्वासं जागरयति | अपि च, अद्यत्वे तु अस्मदीयाः इमे उत्सवाः पर्यटकाणाम् अपि आकर्षण-कारणानि जायन्ते | व्यक्तिशो वदामि देशवासिनः यत् यथा गुजराते नवरात्रि-समुत्सवः बङ्गाले च दुर्गोत्सवः पर्यटनस्य आकर्षण-केन्द्रीभूते स्तः तद्वद् अस्मदीयाः सर्वेsपि उत्सवाः वैदेशिकान् आकर्षयितुं सम्यग्-अवसरत्वेन भवेयुः | अस्यां दिशि वयं किं किं कर्तुं प्रभवामः इति नूनं चिन्तनीयम् |
         अस्याम् उत्सव-शृङ्खलायां कतिपय-दिनानन्तरमेव अशेष-देशे ‘ईद्-उल्-ज़ुहा’-पर्व अपि आमन्स्यते | सर्वेषामपि देशवासिनां कृते ‘ईद्-उल्-ज़ुहा’-पर्वणि भूरि भूरि वर्धापनानि, भूरिशो मङ्गल-कामनाः च | उत्सवाः नाम अस्माकं कृते आस्था-विश्वासयोः प्रतीकत्वेन तु वर्तन्ते एव, नूतने भारते अस्माभिः एते उत्सवाः स्वच्छतायाः प्रतीक-रूपाः अपि करणीयाः सन्ति | कौटुम्बिक-जीवने तु एते उत्सवाः स्वच्छता च मिथः संपृक्ताः सन्ति | उत्सवानां पूर्व-सज्जता अर्थात् स्वच्छीकरणम् | नेदम् अस्माकं कृते किमपि नवीनम्, अभूतपूर्वं वा, परञ्चैतत् अनुष्ठानं सामाजिकस्वभावत्वेन अपि नूनं करणीयमवशिष्यते | सामाजिक- दृष्ट्या स्वच्छतायाः अयम् आग्रहः न केवलं गृहे एव, अस्मदीये सम्पूर्णेsपि ग्रामे. पूर्णेsपि पुरे, कृत्स्नेsपि नगरे, अस्मदीये अखिलेsपि राज्ये, समग्रेsपि अस्मदीये देशे स्वच्छता भवेत् | स्वच्छीकरणम् अवश्यम् उत्सवानाम् अभिन्नाङ्गत्वेन स्यात् |
           मम प्रियाः देशवासिनः ! आधुनिकीभवनस्य परिभाषाः सततं परिवर्तन्ते | एतेषु दिनेषु एकं नवीनं परिमाणं, नूतनं प्रमाणं च प्रवर्तते यत् भवान् कियान् संस्कारी ? कियान् आधुनिकः ? भवतः विचार-प्रक्रिया कियती आधुनिकी अस्ति ? एतत् सर्वम् अवगन्तुम् एकः निकषः अपि व्यवह्रियते अपि च सः वर्तते यत् भवान् पर्यावरणं प्रति कियान् जागरूकः इति ? भवतः स्वकीयेषु क्रियाकलापेषु echo-frendly वा environment-friendly इति परिवेशानुकूलः वा पर्यावरणानुकूलः व्यवहारः अस्ति वा तत्-प्रतिकूलः ? समाजे साम्प्रतं एतत्-प्रतिकूल-व्यवहारः अनुचितः परिगण्यते | अस्य परिणामं साम्प्रतं पश्यामि यत् एतद्दिनेषु गणेशोत्सवे अपि परिवेशानुकूलः गणपतिः विरच्यते, मन्ये यत् बृहदेकम् अभियानं प्रवर्त्यते | यदि भवान् YouTub - इत्यत्र गत्वा अवलोकयिष्यन्ति चेत्, प्रत्येकमपि गृहे बालाः गणेशं विरचयन्ति, मृत्तिकामादाय गजाननं निर्मान्ति | ताः आकृतीः वर्णैः रञ्जयन्ति | कश्चन वानस्पतिकैः रङ्गैः ताः लेपयति, कश्चन तासु कर्गद-शकलानि श्लेषयति | विविधाः प्रयोगाः प्रतिगृहं भवन्ति | प्रकारान्तरेण, गणेशोत्सवेsस्मिन् पर्यावरण-चेतनतायाः बृहद् व्यापकञ्च प्रशिक्षणम् अवलोकयितुं शक्यते, पूर्वं कदाचिदेव तत् दृष्टं स्यात् ? सञ्चार-माध्यमानि अपि, परिवेशानुकूलाः गणेश-प्रतिमाः विरचयितुं जनान् व्यापकतया प्रशिक्षयन्ति, प्रेरयन्ति निर्दिशन्ति च | पश्यन्तु, कियत् बृहत् परिवर्तनं सञ्जातम् | अपि चैतत् सुखदं वर्तते | यथा मया पूर्वं कथितं - देशोsयं कोटि-कोटिभिः तेजस्वि-प्रतिभाभिः अपि  संभरितः अस्ति | सुखमनुभूयते यदा कश्चन अभूत-पूर्वान् नवाचारान् प्रकल्पयति | कश्चन माम् असूचयत् यत् कुत्रचित् कश्चन सज्जनः स्वयम् अभियन्ता सन्नपि सः विशिष्ट-प्रकारिकां मृत्तिकां समाहृत्य तां संयोज्य गणेश-रचनायाः प्रशिक्षणं जनेभ्यः प्रददाति | अपि च, एकस्यां लघु-जलद्रोण्यां गणेश-मूर्ति-विसर्जनं विधीयते | तस्यामेव जल-द्रोण्यां गणेश-मूर्तिः स्थाप्यते, द्रुतमेव च, जलेन मिश्रीयते | नैतावता अलम् , तेन जल-द्रोण्यां वृन्दा-पादपः वा अन्ये पादपाः अपि रोपिताः | वर्ष-त्रय-पूर्वं यदा स्वच्छतायाः अभियानम् आरब्धम्, ओक्टोबर-मासे द्वितीये दिनाङ्के, ततः परम् ऐषमः वर्ष-त्रयं पूर्णं भविता, तथा चास्य अभियानस्य सकारात्मकानि परिणामानि आलोक्यन्ते | प्रतिशतं ऊनचत्वारिन्शततः प्रायेण प्रतिशतं सप्त-षष्टि-मितं शौचालयानां निर्माणलक्ष्यं पूर्णम् अजायत | अधुनावधि त्रिन्शत्-सहस्रोत्तर-द्विलक्षमिताधिकाः ग्रामाः अनावृत-शौचाचरणात् आत्मानं मुक्तान् घोषितवन्तः |
        विगतेषु दिनेषु गुजराते भीकरः जलोपप्लवः संमुखीकृतः | अनेके जनाः विगत-प्राणाः जाताः परञ्च जल-पूरस्य अनन्तरं यदा जल-प्रवाहः न्यूनीभूतः तदा सर्वत्र अतितराम् मालिन्यम् अस्वच्छता च समेधिते जाते | एतादृश्यां स्थितौ गुजरातस्य बनासकान्ठा-जनपदे धानेरा-स्थानस्य जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः पूर-प्रभावितानां द्वाविन्शतेः मन्दिराणां त्रयाणां मस्जिदानां च चरण-बद्ध-पद्धत्या स्वच्छताम् अकुर्वन् | सर्वेsपि एते स्वीय-प्रस्वेद-प्रस्रवण-पुरस्सरं सन्नद्धाः सन्तः कार्येsस्मिन् संलग्नाः सञ्जाताः | स्वच्छतायाः कृते एकतायाः अमुना उत्तमोत्तमेन उदाहरणेन प्रत्येकमपि जनः प्रेरितो भवति | जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः उदाहरणमेनत् प्रतिष्ठापितवन्तः | स्वच्छतायै समर्पण-भावेन विहितः प्रयासः यदि अस्मदीयः स्थायी स्वभावः भवेत् चेत् राष्ट्रस्य परमोत्तमा समुन्नतिः अवश्यंभाविनी भविता |                            
        मम प्रियाः देशवासिनः ! सर्वान् भवतः आह्वयामि यत् पुनरेकवारं ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जयन्त्याः पञ्चदश वा विन्शति-दिनेभ्यः प्रागेव “स्वच्छता एव सेवा” इति अभियानमेकं प्रवर्तयेम ! यथा पूर्वं कथ्यते स्म “जलसेवा एव प्रभुसेवा”, “स्वच्छता एव सेवा” तद्वद् | समग्रेsपि देशे स्वच्छतायाः परिवेशं जनयेम ! यथावसरं यत्रावसरान् लभामहे, वयं समुचितावसरान् मृगयेम, परमार्थेन वयं संयुताः भवेम ! दीपावल्ल्याः सज्जैषा इति मन्येमहि उताहो नवरात्रस्य सन्नद्धता वा दुर्गापूजायाः उपकल्पनमिति | श्रमदानं कुर्याम ! अवकाश-दिने वा रविवासरे सम्भूय कार्याणि कुर्याम ! परिपार्श्व-वर्तिनीः वसतीः गच्छेम ! समीपवर्तिनः ग्रामान् गच्छेम ! परञ्च आन्दोलनत्वेन कार्याणि कुर्याम ! अहं सर्वान् अपि विद्यालयान्, महाविद्यालयान्, प्रशासनस्य अधिकारिणः, कर-समाहर्तॄन्  सरपञ्चान्, सर्वाणि प्रशासनेतर-संघटनानि, सामाजिकं सांस्कृतिकं राजनीतिकञ्च नेतृत्वं साग्रहं कथयामि यत् ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जन्म-जयन्त्याः पञ्चदश-दिनेभ्यः प्रागेव वयं स्वच्छतायाः तादृशं परिवेशं विरचयेम, तादृशीं स्वच्छतां कुर्याम, यत् ओक्टोबर-मासीयः द्वितीय-दिवसः  यथार्थ-भावेन  गान्धि-महात्मनः ओक्टोबरमासीया द्वितीया तिथिः भवेत् |  पेयजल-स्वच्छता-मन्त्रालयः MyGov.in - इत्यत्र एकं प्रभागं निर्मितवान् यत्र शौचालय-निर्माणानन्तरं भवन्तः स्वीयं, तस्य कुटुम्बस्य च नामनी प्रवेशयितुं शक्नुवन्ति यस्मै भवन्तः साहाय्यम् अकुर्वन् | मम सामाजिक-सञ्चार-माध्यमानां मित्राणि अपि किञ्चित् रचनात्मकम् अभियानं प्रचालयितुं शक्नुवन्ति | तथा च, virtual world - इति वैद्युदाणविक-जगतः कार्यं धरातलेsपि भवेत् इत्यस्य प्रेरणां प्रसारयितुम् अर्हन्ति | पेयजल-स्वच्छता-मन्त्रालयेन प्रवर्त्यमाने स्वच्छ-संकल्पतः स्वच्छ-सिद्धि-स्पर्धा- इत्यभियाने निबन्ध-स्पर्धा, लघु-चलचित्र-निर्माण-स्पर्धा, चित्रकला-स्पर्धा चायोज्यन्ते | एतदर्थं भवन्तः विभिन्नासु भाषासु निबन्धान् लेखितुमर्हन्ति | एतदर्थं आयुषः प्रतिबन्धः नास्ति | भवन्तः लघु-चलचित्रं निर्मातुं शक्नुवन्ति | स्वीयेन जङ्गम-दूरभाषेण निर्मातुमर्हन्ति | मिनिट्-द्वयस्य मिनिट्-त्रयस्य वा चलचित्रं रचयितुं शक्नुवन्ति यद्धि स्वच्छतायै प्रेरकं भवेत् | एतत्तु कस्यामपि भाषायां निर्मातुं शक्यते, मूकमपि भवेत्, आसु स्पर्धासु ये प्रतिभागित्वं निर्वक्ष्यन्ति तेषु सर्वोत्तमं जन-त्रयं चेष्यते, जनपद-स्तरे त्रयः राज्य-स्तरे च त्रयः - एतेभ्यः पुरस्काराः प्रदास्यन्ते | अतः अहं प्रत्येकमपि जनं निमन्त्रयामि यत् आगच्छन्तु ! स्वच्छतायाः अभियानस्य एतादृशेन प्रकल्पेनापि आत्मानं संयोजयन्तु |
       भूयोsपि एकवारं कथयितुमिच्छामि यत् ऐषमः गान्धि-जयन्तीं “स्वच्छ-द्वितीय-ओक्टोबर” - रूपेण आयोजयितुं संकल्पयेम ! एतदर्थञ्च सेप्टेम्बर-मासस्य पञ्चदश-दिनादेव “स्वच्छता एव सेवा” - इति मन्त्रं प्रतिगृहं प्रापयेम ! स्वच्छतायै कमपि कमपि समुपायं विदध्म ! स्वयं परिश्रम्य अस्य सहभागिनः भवेम ! भवन्तः अवलोकयन्तु ! गान्धि-जयन्त्याः ओक्टोबर-मासीया द्वितीया तिथिः कियती प्रशस्ता भविता ? भवन्तः कल्पयितुं शक्नुवन्ति यत् पञ्चदश-दिवसीयायाः स्वच्छतायाः एतदभियानस्य अनन्तरम्, “स्वच्छता एव सेवा” - इत्यस्य अनन्तरं ओक्टोबरे द्वितीय-दिने यदा वयं गान्धि-जयन्तीम् आयोजयिष्यामः, तदा पूज्याय बापू-वर्याय श्रद्धाञ्जलि-प्रदानावसरे वयं कियन्तं पवित्रम् आनन्द-सन्दोहम् अनुभविष्यामः ! 
         मम प्रियाः देशवासिनः ! अद्याहं विशेष-रूपेण भवतां सर्वेषाम् आधमर्ण्यं स्वीकर्तुं वाञ्छामि | हृदयस्य अन्तस्तलतः भवतां सर्वेषामपि कृते कार्तज्ञ्यं प्रकटयितुं समीहे | सुदीर्घ-कालं यावत् भवन्तः “मन की बात” इत्यनेन संयुताः स्थिताः इति कृत्वा नैव अपि तु, अमुना कार्यक्रमेण सार्धमेव अशेष-देशस्य प्रत्येकमपि कोणात् लक्षशो जनाः संयुताः भवन्ति इति कृत्वा साधुवादान् वितरामि | श्रोतारस्तु कोटिशो वर्तन्ते परन्तु लक्षशो जनाः कदाचित् मां पत्राणि लिखन्ति, कदाचित् सन्दिशन्ति, कदाचित् दूरभाषेण सन्देशं प्रेषयन्ति, एतत्-सर्वं मम कृते बृहत्-निधि-रूपं वर्तते | देशवासिनां मनान्सि अवगन्तुं कार्यक्रमोsयं मम कृते महान् अवसरत्वेन उपस्थितोsस्ति | भवन्तः “मन की बात” इत्यस्य यावतीं प्रतीक्षां कुर्वन्ति, ततोsप्यधिकतया भवतां संदेशान् अहं प्रतीक्षे | लालायितो भवामि यतो हि भवतां प्रत्येकमपि प्रतिभावेन आत्मानं शिक्षयितुं प्रभवामि | यत् किमपि करोमि तस्य परीक्षायै अवसरो लभ्यते | अनेकान् विषयान् नूतन-रीत्या विचारयितुं भवतां लघु-लघु-विचाराः अपि मम कृते सहायिनो भवन्ति, अत एव भवतामस्मै योगदानाय आभारं प्रकटयामि | सदाहं प्रयते यत् भवद्भिः प्रेषितान् विचारान् सन्देशान् च स्वयमेव पश्यानि, आकर्णयानि, पठानि, अवगच्छानि च | अधुना पश्यन्तु ! अमुना दूरभाष-सन्देशेन साकं भवन्तोsपि आत्मानं संयोक्तुं प्रभविष्यन्ति | भवन्तः अपि अनुभविष्यन्ति यत् अहो ! मयापि कदाचित् एतादृशी त्रुटिः आचरिता इति | कदाचित्तु कानिचित् वस्तूनि अस्माकं चरित्रस्य तादृन्शि अभिन्नाङ्गानि भवन्ति यत् किमपि अनुचितमाचरामः इति न मनागपि अनुभवामः |                                                                                   
      “प्रधानमन्त्रि-महोदय ! अहं पुणेतः अपर्णा वदामि | अहं मम सख्याः विषये किमपि कथयितुमिच्छामि | सा सर्वदैव परेषां साहाय्यार्थं प्रयतते | परञ्च, तस्याः एकां रीतिं दृष्ट्वा अहं प्रतोदिता भवामि | एकदाहं तया साकं वस्तु-क्रयणार्थं मोल-इति विपणीं गतवती | शाटिकायाः कृते सा अञ्जसा द्विसहस्रं रूप्यकाणि व्ययीकृतवती, तथा च, पीज़ा-क्रयणार्थं सार्ध-चतुःशतं रूप्यकाणि प्रादात् | परञ्च विपणीं गन्तुं तया यत् ओटो-यानं स्वीकृतम्, केवलं पञ्च-रूप्यकाणां व्यवकलनार्थं ओटो-चालकेन साकं सा सुदीर्घं विनिमयं विवादञ्च कृतवती | प्रत्यागमने मध्येमार्गं सा शाकादीन् क्रीतवती, तथा च, प्रत्येकमपि शाकस्य मूल्योपरि पुनः चत्वारि वा पञ्च रूप्यकाणि न्यूनीकृत्य प्रादात् | अहम् अतीव दुःखम् अनुभवामि | वयं बहुषु स्थानेषु विनैव वारमपि पृष्ट्वा बृहन्मात्रिकं प्रदेयं कुर्मः, तथा च, अल्पमात्रिकाय मूल्याय श्रमशीलैः अस्मदीयैः भगिनी-भ्रातृभिः साकं कलहं कुर्मः | तेषु नैव विश्वसिमः | भवान् स्वीये “मन की बात” इत्यत्र अवश्यं विषयमेनम् उपस्थापयतु !”
    साम्प्रतम् इमां दूरभाषाकारणां श्रुत्वा भवन्तः नूनं चकिताः जाताः स्युः - इति दृढतया विश्वसिमि, सम्भवेत् इतः परमेवं  नैवं व्यवहर्तुं निश्चितवन्तः वा ? किं भवन्तः नानुभवन्ति यत् अस्मदीयानां गृहाणां पार्श्वे यदा कश्चन शाक-विक्रेता आगच्छति तदा मूल्यम् अपचाययितुं प्रयतामहे - सः भवेत् वा लघुः आपणिकः वा ओटो-यानचालकः वा परिभ्रम्य वस्तु-विक्रयण-शीलः श्रमजीवी वा कश्चित् - वयं साग्रहं रूप्यक-द्वयात्मकम् रूप्यकात्मकं वा वस्तु-मूल्यम् अपचाययितुं प्रारभामहे | अपि च, कञ्चित् स्वल्पाहार-गृहं गत्वा प्रदेय-पत्रके किं लिखितम् इति अदृष्ट्वैव झटिति धनराशिं प्रदद्मः | केनचिदपि निर्धनेन साकं सम्बन्धो भवति तदैव मूल्य-न्यूनीकरणार्थं वदामः | अमुना व्यवहारेण निर्धनस्य मनसि किं किं जायते इति कदाचिद् विचारितं वा भवद्भिः ? सः आहतो भवति ! असौ निर्धनः इति कृत्वा तस्य प्रामाणिकता संदिह्यते | रूप्यक-द्वयेन रूप्यक-पञ्चकेन वा भवतां जीवने न किञ्चित् नैयून्यं भविष्यति | अस्मदीया लघ्वी अपि एषा रीतिः कियती आघात-कारिका भवति - इति न कदाचित् परिशीलितं स्यात् | महोदये ! भवत्याः कार्तज्ञ्यम् आवहामि यत् दूरभाष-सन्देशेन मह्यं मार्मिकं हृदय-स्पर्शकरञ्च सन्देशं प्राहिणोत् | अहं दृढं विश्वसिमि यन्मम देशवासिनः अपि यदि निर्धनेन साकं एतादृक्-व्यवहारस्य अभ्यासं धारयन्ति चेत्, ते नूनं तं परित्यक्ष्यन्ति |
     मम प्रियाः नवयुवानः सखायः ! ओगस्ट-मासस्य ऊन-त्रिन्शत्तमः दिवसः खेल-दिवसत्वेन आमान्यते | दिवसोsयं महतः सुख्यातस्य होकी-क्रीडायाः कुशल-क्रीडकस्य मेज़र्-ध्यान-चन्दस्य जन्म-दिनत्वेन विराजते | होकी-क्रीडायै तेनानुष्ठितं योगदानम् अनुपमम् अतुलनीयञ्च वर्तते | तथ्यमिदम् एतस्मात् कारणादेव स्मारयामि यत् अस्मदीयस्य देशस्य नूतना संततिः क्रीडाभिः साकम् आत्मानं संयोजयेयुः | यदि वयं जगति युव-राष्ट्र-रूपेण स्मः चेत् अस्मदीया एषा तरुणता, क्रीडा-क्षेत्रेषु अपि दृष्टिपथम् आगता भवेत् | क्रीडा अर्थात् शारीरिकी औचिती, मानसिकी जागृतिः, व्यक्तित्व-संवर्धनम् चेत्यादि | अवगच्छामि यत् इतः परमपि किं स्यात् ? खेला नाम हृदय-संयोजिका औषधीः | अस्मदीयो युव-वंशः क्रीडा-जगति अग्रगामी भवेत् | अद्यतने संगणक-युगे नूनं प्रबोधयितुं वाञ्छामि यत् play-station - इत्यस्य अपेक्षया playing field - इत्येव महत्वपूर्णम् | संगणकोपरि FIFA- इति नूनं क्रीडन्तु, परञ्च कदाचित् बहिर्निर्गत्य क्रीडाङ्गणे पाद-कन्दुकेन सहापि कौतुक-पुरस्सरं  खेलन्तु ! संगणकोपरि क्रिकेट-खेलनं कुर्वन्ति नाम, परञ्च अनावृते क्रीडा-स्थले अपि, नभसः नीचैः अपि क्रिकेट-क्रीडायाः आनन्दः नूनं पृथगेव भवति | कदाचित् पूर्वं तादृशः कालः आसीत्, यदा कुटुम्बस्य बालाः बहिर्गच्छन्ति स्म तदा जननी प्रथमं पृच्छति स्म यत् त्वं कदा प्रत्यागमिष्यसि ? साम्प्रतं स्थितिः तादृशी संजातास्ति यत् बालाः गृहं प्रत्यागताः सन्तः एव एकस्मिन् कोणे स्थिताः cartoon-चलचित्र-विलोकने वा जङ्गम-दूरभाष-क्रीडासु वा व्यापृताः भवन्ति | तदा जननी सचीत्कारं कथयितुं विवशा भवति यत् - त्वं बहिः कदा गमिष्यसि ?  कालानुसारिणी कथेयम् यत् कदाचित् जननी बालान् पृच्छति स्म यत् कदा प्रत्यागमिष्यसि ? सम्प्रति तु पुत्र ! बहिः कदा गमिष्यसि ? इति कथयितुं विवशास्ति जननी |   
    नव-युवानः सखायः ! खेल-मन्त्रालयेन खेल-प्रतिभानाम् अन्वेषणार्थं परिष्करणार्थं च, क्रीडा-प्रतिभान्वेषण-पोर्टल - इति अन्तर्जालीय-द्वारं संनद्धीकृतम् यत्र अशेष-देशस्य कस्मादपि भागात् प्रतिभाशाली क्रीडकः अत्र स्वीयं विवरणं वा दृश्य-मुद्रिकां स्थापयितुमर्हति | चितेभ्यः उदीयमानेभ्यः क्रीडकेभ्यः खेल-मन्त्रालयः प्रशिक्षणं प्रदास्यति, अपि च मन्त्रालयः श्वः एव एतद् -अन्तर्जालीय-वाहिकां प्रवर्तयिष्यति | अस्माकं यूनां कृते तु इयं प्रसन्नता-प्रदायिनी वार्ता यत् भारते ओक्टोबर-मासे षड्-तः अष्टाविंशति-तमदिनं यावत् ऊन-सप्तदश-वर्ष-वयोजुषां क्रीडकानां FIFA - विश्व-चषक-स्पर्धाः आयोजयिष्यन्ते | अशेष-जगतः चतुर्विंशतिः क्रीडक-दलानि भारतम् आगमिष्यन्ति |
   आगच्छन्तु ! जगतः विभिन्न-भागेभ्यः आगम्यमानानां अस्मदीयानां युवातिथीनां खेलोत्सवेनैव सार्धं स्वागतं व्याहरेम, क्रीडानन्दम् अनुभवेम, राष्ट्रे च परिवेशं विरचयेम !  यदा अहं खेल-चर्चां करोमि, स्मरामि च यत् विगते सप्ताहे मार्मिकी एका घटना घटिता | तस्याः विषये देशवासिनः सूचयितुं वाञ्छामि | अत्यल्पायुष्मतीनां बालानां गणेन सह मेलनस्य अवसरो मया लब्धः | तासु काश्चन तु हिमालये जाताः सन्ति | समुद्र-विषयकः न कश्चनापि अनुभवः तासाम् |  अस्मद्देशस्य एतादृश्यः षट् पुत्रिकाः याः हि नौ-सेनायां नियुक्ताः सन्ति, तासाम् उत्साहः, तासां भावः च अस्मान् सर्वान् बलात् प्रेरयतः | एताः षट् पुत्रिकाः INS - तारिणीं नीत्वा समुद्रम् लंघयितुं निर्गमिष्यन्ति | अस्याभियानस्य नामास्ति- “नाविका-सागर-परिक्रमा” अपि चैताः अशेष-विश्व-भ्रमणं कृत्वा अनेक-मासानन्तरं भारतं प्रत्यागमिष्यन्ति | कदाचित् अनारतं चत्वारिंशद्दिनानि जलेषु एव यापयिष्यन्ति, कदाचिच्च अनारतं त्रिंशद्दिनानि वा सलिलेषु एव निर्यापयिष्यन्ति | सामुद्रिकेषु तरङ्गेषु ससाहसं रममाणाः अस्मदीयाः भारतीयाः षट् पुत्रिकाः ! विश्वस्य प्रप्रथमेयं घटना भविता | को नाम न भवेत् हिन्दुस्थानी यो हि आसां भारतीय-पुत्रिकाणां कृते गौरवं नानुभवेत् | अहमासां पुत्रिकाणां साहसम् अदम्योत्साहञ्च अभिनन्दामि | अहं ताः अकथयम् यत् ताः स्वीयानुभवान् अशेष-देशवासिभिः साकं वितरेयुः | अहमपि NarendraModiApp- इत्यत्र तासाम् अनुभवानां कृते पृथक्तया व्यवस्थापयिष्यामि येन भवन्तः तान् नूनं पठितुं शक्ष्यन्ति | यतो हि एषास्ति साहस-कथा, स्वानुभव-कथा, अपि चाहं प्रसन्नताम् अनुभविष्यामि यदि आसां पुत्रिकाणाम् अनुभवान् भवतः यावत् प्रापयिष्यामि | मामकीनाभ्यः आभ्यः पुत्रिकाभ्यः भूरिशो मङ्गल-कामनाः, हार्दिकीञ्च आशिराशिं वितरामि |
    मम प्रियाः देशवासिनः ! सेप्टेम्बर-मासे पञ्चमे दिने वयं शिक्षक-दिवसम् आयोजयामः | अस्माकं देशस्य प्राक्तन-राष्ट्रपतेः डॉ.राधाकृष्णन्-महोदयस्य जन्मदिवसः अयं | असौ राष्ट्रपतिः आसीत् परञ्च आजीवनं असौ आत्मानं शिक्षक-रूपेण एव उपास्थापयत् | सः शिक्षां प्रति समर्पितः आसीत् | सः अध्येता, राजनयिकः भारतस्य च राष्ट्रपतिः परञ्च प्रतिक्षणं जीवन्नेव शिक्षकः | तस्मै सादरम् नमामि | महान् वैज्ञानिकः  अल्बर्ट आइंस्टीनः अकथयत यत् - It is the supreme art of the teacher to awaken joy in creative expression and knowledge.”  स्वीयेषु विद्यार्थिषु सृजनात्मक-भावस्य ज्ञानस्य चानन्दस्य जागरणम्  एव शिक्षकस्य महत्वपूर्णं कार्यं | ऐषमः यदा वयं शिक्षक-दिवसं आयोजयिष्यामः तदा किं वयं सर्वे मिलित्वा संकल्पयितुं शक्नुमः ?  सोत्साहं अभियानमेकं प्रवर्तयितुं शक्नुमः ? अमुना संकल्पेन साकं विषयमेनम् अग्रेसारयितुं अर्हिष्यामः | प्रत्येकमपि जनं पञ्च-वर्षार्थं संकल्पेन बध्नामः, तं संकल्पं साधयितुं मार्गदर्शनं कुर्मः, पञ्च-वर्षाणि यावत् असौ नूनं तत् प्राप्नुयादिति प्रयतेम ! जीवने सलतायाः आनन्दं प्राप्नुमः | एतादृशं परिवेशं अस्मदी- याः विद्यालयाः, अस्माकीनाः महाविद्यालयाः, अस्मदीयाः शिक्षकाः अस्माकीनानि च शिक्षा-संस्थानानि कर्तुं प्रभवन्ति | अस्मदीये देशे यदा वयं रूपान्तरणस्य विषयं उपस्थापयमः, तदा यथा कुटुम्बे मातुः स्मरणं भवति तद्वद् समाजे शिक्षकस्य स्मरणं भवति | यदि वयं सम्भूय प्रयतामहे चेत् तदा, राष्ट्रस्य रूपान्तरणे महत्वाधायिनीं भूमिकां निर्वक्ष्यामः | आगच्छन्तु !  मन्त्रमेनं स्वीकृत्य अग्रेसरामः |    
       “प्रणमामि प्रधानमन्त्रि-महोदय !  मम नामास्ति डॉ.अनन्या अवस्थी, अहं मुम्बई-निवासिनी अस्मि | अपि च, Howard -विश्वविद्यालये India Research Centre-इत्यत्र कार्यं करोमि | अनुसन्धानार्थिरूपेण मम रुचिः वित्तीय-समावेशे वर्तते | एतत्-सम्बद्धानां सामाजिक-परियोजनानां विषये भवन्तं प्रष्टुं इच्छामि यत् वर्ष-त्रय-पूर्वं जन-धन-योजना प्रवर्तिता आसीत् |  किं भवान् इदं कथयितुं शक्नोति यत् वर्ष-त्रयानन्तरं भारतं समधिकं क्षमम्, समधिकं संरक्षितं च वर्तते ? किं एतद्विषयकाणि सौविध्यानि अस्मदीयाभ्यः महिलाभ्यः कृषकेभ्यः श्रमिकेभ्यः च प्राप्तानि वा ?,  धन्यवादः |                                                              
         मम प्रियाः देश-वासिनः ! प्रधान-मन्त्रि-जन-धन-योजना वित्तीय-समावेशः चेत्यादि-विषयाः न केवलं भारते कृत्स्ने अपि जगति आर्थिक-जगतः पण्डितानां चर्चा-पदवीं भजन्ते | वर्ष-त्रय-पूर्वं ओगस्ट-मासे अष्टाविंशतितमे दिने स्वप्नमेकं आधृत्य अभियानमिदं प्रवर्तितमासीत् | श्वः प्रधान-मन्त्रि-जन-धन-योजनायाः वर्ष-त्रयं पूर्णतां उपैति | त्रिंशत्-कोटिमितानि नूतनानि कुटुम्बानि अमुना साकं संयोजितानि | बैङ्क-लेखाः च समुद्घाटि- ताः | अद्याहं समादधामि यत् वर्ष-त्रयाभ्यन्तरमेव समाजस्य अन्तिम- पङ्क्तिस्थः जनः, मम निर्धनः भ्राता, देशस्य अर्थव्यवस्थायाः मूलधारायाः अङ्गत्वेन प्रतिष्ठितो जातः | शनैः शनै सः अपि अनुभवति यत् धनं सञ्चितं चेत्, संततेः कार्यार्थम् उपयोक्तुं शक्ष्यते | साम्प्रतं संयमस्य परिवेशः विरचितः अस्ति | यः निर्धनः स्वीये कोशे RuPay Card - इति धन-पत्रकम् धारयति, तदा सः धनिकैः सह आत्मानं तूलयितुमर्हति | प्रधान-मन्त्रि-जन-धन-योजनायां निर्धन-द्वारा प्रायेण पञ्च-षष्टि-सहस्र-कोटिमितानि रूप्यकाणि बैङ्केषु सञ्चितानि | प्रधानमन्त्रि-जीवन- ज्योतिः-आगोप-योजना, ‘प्रधानमन्त्रि-सुरक्षागोप-योजना’ - चेत्यत्र एक-रूप्यकं त्रिंशत्-रूप्यकाणि चेति लघुराशिः अद्यत्वे निर्धनानां जीवने नवीनं विश्वासं उत्पादयति | अनेकेषु कुटुम्बेषु एकरूप्यकस्य आगोप-करणात आगते सति संकटे कतिपय-दिनेषु  एव तस्मै कुटुम्बाय द्वि-लक्ष-रूप्यकाणि प्रापितानि |
    प्रधानमन्त्रि-मुद्रा-योजना, ‘Start Up योजना’, ‘Stand Up योजना’ - चेत्यादिषु कश्चन दलितः भवेत् वा आदिवासी, काचन  महिला वा साक्षरः युवा उताहो आत्मनिर्भतायै प्रयतमानो युवकः, कोटि-कोटि-नवयुवकाः ‘प्रधानमन्त्रि-मुद्रा-योजनया बैंकभ्यः विनैव प्रत्याभूतिं धनं प्राप्तवन्तः | ते स्वयमपि आत्मनिर्भरत्वं प्राप्तवन्तः | प्रत्येकमपि एकस्मै वा द्वाभ्यां वा वृत्ति-प्रदानार्थं प्रायतत | एतादृशानि शताधिकानि उदाहरणानि सन्ति | भवत्-पर्यन्तं प्रापयितुमहं सर्वात्मना प्रयतिष्ये, अपि च सञ्चार-माध्यमानि अपि एतेषां जनानां साक्षात्कारादिकं विधाय नूतनान्  युव-जनान् प्रेरयितुं शक्नुवन्ति |
      मम प्रियाः देशवासिनः ! पुनरेकवारं भवतां कृते मिच्छामि दुक्कडम्....     भूरि भूरि साधुवादाः .....   !!!

+++         +++++      +++++    +++++++                    

डॉ.बलदेवानन्द-सागरः