Monday 21 November 2016

Acharya's foreword to stotra ranjani

॥ वर्धतां दैवी वाक् ॥
संस्कृतं नाम दैवी वाग् अन्वाख्याता महर्षिभिः इति काव्यादर्शे आचार्यः दण्डी। इयं संस्कृतभाषा अत्यन्तं प्राचीना। कदा अस्याः भाषायाः उत्पत्तिः इति तु अनुसन्धानस्य विषयः। जगति अस्मिन् सर्वप्राचीनं वाङ्मयम् ऋग्वेदः इति निर्विवादम्। अस्मिन् प्राचीने वाङ्मये एव संस्कृतस्य एतादृशः विकासः आश्चर्यजनकः। अतः एव संस्कृतभाषा अनादिः आदिरहिता इति कथनं प्रसिद्धम्। एतस्याः भाषायाः प्रयोगः आदिकालाद् एव नियमानुसारी। पुनः च इयं यथा भाषणे तथा एव लेखने अपि। उभयत्र अस्याः भाषायाः एकरूपता। अतः एव इयं भाषा अध्ययनाय अतीव सुलभा, तेन एव कारणेन अतीव कठिना च​।
एतस्यां भाषायां विद्यमानानि वाङ्मयानि नितरां हृद्यानि मनसः आकर्षकाणि च। तस्माद् एव कारणात् संस्कृतवाङ्मयं बह्वीसु इतरासु भाषासु अनूदितम्। एकस्य एव वाक्यस्य अनुवादः व्यक्तिभेदेन भिन्नः। वस्तुतः मौलिकं तत्त्वम् ज्ञातुं मूलभाषायाः अध्ययनम् अनिवार्यम्। इदं संस्कृतभाषायाः अपि समानम्। अतः संस्कृतवाङ्मयस्य अध्ययनं संस्कृतभाषया एव करणीयम्। तदर्थं संस्कृतभाषाज्ञानम् आवश्यकम्। संस्कृतभाषायाः अध्ययनाय सत्सु बहुषु उपायेषु सरलः उत्तमः उपायः कः इति प्रश्नः।
तस्य प्रश्नस्य एव समाधानम् इयं स्तोत्ररञ्जनी। अस्य अध्ययनसाधनस्य उद्देश्यद्वयम् - एकम् आध्यात्मिकरूपेण स्तोत्राणाम् अध्ययनम्, द्वितीयम् अनायासेन संस्कृतभाषायाः अध्ययनम् इति। अर्थात् अनेन अर्थज्ञानेन सह स्तोत्रपठनम् इति पुण्यं, संस्कृतस्य अध्ययनम् इति लाभद्वयम्। पुनः प्राप्तेन संस्कृतज्ञानेन इतरेषां संस्कृतसाहित्यानाम् अवबोधसामर्थ्यम् इति महान् लाभः च​।
इयं स्तोत्ररञ्जनी अतीव परिश्रमेण सूक्ष्मेक्षिकया च सम्पादिता। अत्र पाठकानाम् अध्येतॄणां च सौकर्याय श्लोकः, पदच्छेदः, अन्वयः, पदपरिचयः, समस्तपदानां विग्रहवाक्यं, श्लोकस्य तात्पर्यम् इति क्रमः आश्रितः। किं च ये अध्येतारः पाठकाः वा देवनागरीलिप्या न परिचिताः तेषां सौकर्याय सर्वं विवरणं रोमन्-लिप्या अपि लिप्यन्तरणं विधाय प्रस्तुतम्। एतेन भारतीयानां विदेशीयानां च महान् उपकारः। नूनम् एषः प्रयत्नः सफलः इति मम विश्वासः।
इयं स्वाध्यायसामग्री श्रीमत्याः रोहिणी बक्शी वर्यायाः मानसप्रसूतिः। तस्याः संस्कृतविषये अनुरागः, संस्कृतसेवा, संस्कृतप्रचारतत्परता, सततं संस्कृतविषये चिन्तनम् इति सर्वस्यापि इदं फलम्। तस्याः सहयोगिनः आचार्यनारायणन्-नम्बूदिरि, विद्यावारिधिः विनायकरजतः एवम् अन्येषां च परिश्रमस्य एव इदं फलम्। अस्मिन् पवित्रे कर्मणि अर्थशास्त्रविदः भारत​-नीति-आयोग-सदस्य च डा.बिबेकदेबरायवर्यस्य प्रेरणं प्रोत्साहनं च अविस्मरणीयम्।
एषा अध्ययनसामग्री सर्वेषां पाठकानाम् अध्येतॄणां च उपकारकः प्रीतिकरः च इति मम विश्वासः इति शम्॥
Sanskrit – the Divine Language
Sanskrit is known as divine language. It is perfect and more copious than any other language in the world. It is beyond debate that Sanskrit Grammar is the most flawlessly structured and constructed as compared to the grammar of other languages. Further, it is a well acknowledged fact that the literature of Sanskrit and particularly Rigveda is the most ancient literature of the world. Sanskrit literature is well acclaimed for its richness in thoughts, spiritual content, culture etc. Though there are translations available of this treasure in many languages, they are subjected to the individual mind, adaptation, understanding and so on. To comprehend the original thought content in Sanskrit one must read the unadulterated original works in Sanskrit. This is not possible unless one has a fair knowledge and comprehension in Sanskrit. There are many readers available in the market and also online resources to learn Sanskrit. However, there is hardly a study material available to make the learner learn Sanskrit instinctively during the process of learning.
One such innovative effort is made through this Stotra Ranjiñī that presents the language indirectly through the process of learning stotras. In this reader various stotras are presented in a comprehensible methodology, through which one can understand the meaning of a particular stotra as well as learn Sanskrit language. Here, śloka, word-split, word-order, explanation of each word, defining the compounds, and meaning are given in a sequence, so that learner could understand every little bit of the śloka completely at his/her own pace and progress. Further, transliteration of the ślokas and other important feature are also given to facilitate the learner who do not know Devanāgari script. This makes the Independent Study Reader more attractive and globally accepted. Further, the readers are doubly benefited to be acquainted with various stotras besides learning Sanskrit. I hope that this Stotra Ranjiñī will attract the readers globally and prove the most competent tool for learning Sanskrit and stotras.
This Stotra Ranjiñī is indeed a brain child of Smt. Rohini Bakshi a Sanskrit scholar who is known for her love for Sanskrit besides her services for the propagation and preservation of Sanskrit language and the treasures hidden in Sanskrit. I congratulate her for her efforts in bringing out this reader that would benefit readers globally. I also congratulate Sri Narayanan Namboodiri and Dr.Vinayak Rajat Bhat who put their efforts in giving shape to this Stotra Ranjiñī. I know that publishing this reader would not have been possible without the motivation and encouragement of Dr. Bibek Debroy an eminent Economist and Member, Niti Ayog, Government of India.           
I hope that this Reader will attract the readers worldwide and facilitate their Sanskrit learning.

*****