Monday 26 February 2018

‘मनोगतम्-४१’ ‘मन की बात’ प्रसारण-तिथिः - 25.02.2018


‘मनोगतम्-४१’  मन की बात  (41वीं कड़ी)
प्रसारण-तिथिः - 25.02.2018

[“मनोगतम्” - इतिमन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]              -   संस्कृत-भाषान्तर-कर्ता -                                                       
                                           -  डॉ.बलदेवानन्द-सागरः  

मम प्रियाः देशवासिनः, नमस्कारः |
अद्य प्रारम्भादेव मन की बात-प्रसारणं दूरभाषाकारणातः एव कुर्मः |         (दूरभाषाकारणा )
आदरणीय ! प्रधानमन्त्रि-महोदय !! अहं कोमल-त्रिपाठी, मेरठतः वदामि... अष्टाविंशति-दिनाङ्के ‘national science day’- इति राष्ट्रिय-विज्ञान-दिनं वर्तते... भारतस्य प्रगतिः विकासश्च, पूर्ण-रूपेण विज्ञानेन सम्बद्धौ स्तः... यावन्तम् अत्र वयं नवाचारम् अनुसन्धानञ्च करिष्यामः, तावन्तमेव अग्रेसरिष्यामः तथा च समृद्धिम् अवाप्स्यामः... किं भवान् अस्मदीयान् यूनः प्रोत्साहयितुं कांश्चन तादृशान् शब्दान् कथयिष्यति येन हि ते वैज्ञानिक-पद्धत्या स्वीयां विचार-सरणीम् विवर्धयेयुः तथा चास्माकं राष्ट्रमपि अग्रेसारयितुं शक्नुयुः...धन्यवादः |                         भवत्याः दूरभाषाकारणायाः कृते भूरि-भूरि धन्यवादः | विज्ञानमधिकृत्य मम युव-सहचराः माम् अनेकान् प्रश्नान् अपृच्छन्, ते किमपि किमपि सततं मां लिखन्ति | वयम् अवलोकयामः यत् समुद्रस्य वर्णः नीलः दृश्यते परञ्च वयं स्वीय-दैनिक-जीवनस्य अनुभवैः जानीमः यज्जलस्य न कश्चन वर्णो भवति| किं कदाचिद् अस्माभिः विचारितं यत् द्याः, समुद्रस्य वा जलं वार्णिकं कथं भवति ? अयमेव प्रश्नः विंशत्युत्तर-एकोनविंशति-शत-तमस्य  [1920] दशके एकस्य युवकस्य मनसि समुत्पन्नः | अमुना एव प्रश्नेन आधुनिक-भारतस्य अनन्यतमः महान् वैज्ञानिकः समुत्पादितः |  यदा वयं विज्ञान-विषयिणीं चर्चां कुर्मः, तदा सर्व-प्रथमं भारत-रत्नंर्-सी.वी.रमणं स्मरामः | सः light scattering - इति प्रकाशस्य प्रकीर्णन-क्षेत्रे उत्कृष्ट-कार्यम् अकरोत्, तदर्थम् असौ नोबल-पुरस्कारेण सभाजितः| तस्य अन्यतमम् अन्वेषणं ‘Raman effect’-इति नाम्ना सुख्यात- मस्ति | वयं प्रतिवर्षं फेब्रुआरि-मासे अष्टाविंशतौ तिथौ ‘National Science Day’- राष्ट्रिय-विज्ञान-दिनम् आयोजयामः यतो हि एवं निगद्यते यत् अस्मिन्नेव दिने सः light- scattering-इति प्रकाश-प्रकीर्णन-विषयम् अन्विष्टवान्, यदर्थमसौ नोबल-पुरस्कारेण सभाजितः | देशोsयं विज्ञान-क्षेत्रे बहून् महतः वैज्ञानिकान् अजनयत् | एकतः महतां गणितज्ञ-बोधायन-भास्कर-ब्रह्मगुप्त-आर्यभट्ट-सदृशानां वैज्ञानिकानां दीर्घा परम्परा प्रावर्तत, अपरतश्च चिकित्सा-क्षेत्रे सुश्रुत-चरकौ अस्माकं गौरवास्पदं भजेते| र्-जगदीश-चन्द्र-बोसः हरगोविन्द-खुरानातः सत्येन्द्र-नाथ-बोस-सदृशानां वैज्ञानिकानां दीर्घा पंक्तिः भारतस्य गौरवं सततं विवर्धयति| सत्येन्द्र-नाथ-बोसस्य नाम्ना तु Boson’- इति ‘famous particle’- सुख्यात-कणिकायाः नामकरणमपि विहितम् | नातिचिरमहं  मुम्बय्यां Wadhwani Institute for Artificial Intelligence-इति संस्थानस्य उद्घाटन-कार्यक्रमस्य सौभाग्यम् अलभम् | विज्ञान-क्षेत्रे ये चमत्काराः भूयन्ते, तेषाम् अवगमनम् अतितरां रोचकं वर्तते | Artificial Intelligence - इति कृत्रिम-प्रज्ञायाः माध्यमेन Robots, Bots- चेति कृत्रिम-मानवानां specific task- चेति विशिष्ट-कर्म-कुशलानां यन्त्राणां च निर्माणे साहाय्यम् अवाप्यते | अद्यत्वे यन्त्राणि self-learning - इति स्वतः एव स्व-प्रज्ञां दक्षतरां कुर्वन्ति | अयं प्रविधिः निर्धनानां, वञ्चितानाम् अपेक्षावताञ्च जीवनानि सरलीकर्तुं, प्रयोक्तुं शक्यते| कृत्रिम-प्रज्ञायाः तस्मिन् कार्यक्रमे अहं वैज्ञानिक-समुदायाय साग्रहं न्यवेदयं यत् दिव्याङ्गानां भगिनी-भ्रातॄणां जीवनानि सरलीकर्तुं केन प्रकारेण कृत्रिम-प्रज्ञातः साहाय्यम् अवाप्तुं शक्यते ? इति कृत्वा नूनं ते प्रयतेरन्, किं वयं कृत्रिम-प्रज्ञायाः माध्यमेन प्राकृतिक-आपदां विषयेsपि समधिकम् अनुमातुं शक्नुमः ? कृषकाणां शस्योत्पादन-विषयेsपि किञ्चित् साहाय्यं कर्तुं शक्नुमो वा ? किं कृत्रिम-प्रज्ञा स्वास्थ्य-सेवानाम् अभिगमनं सरलतरं विधातुम् आधुनिक-पद्धत्या च रोगाणाम् उपचारार्थं सहायिनी भवितुमर्हति ?
           विगतेषु दिनेषु इज़राइल-प्रधानमन्त्रिणा साकमहं गुजराते, अमदाबादे ‘I Create’ - इति कार्यक्रमस्य उद्घाटनाय अवसरं लब्धवान् | तत्राहं सूचितः यत् कश्चन अन्यतमो युवा, तादृशमेकं ‘digital instrument’ - इति अङ्कीयोपकरणं विकासितवान्  यस्य साहाय्येन कश्चन वक्तुम् अक्षमो जनः तस्योपकरण-माध्यमेन स्वीयं हार्दं लिखन्नेव तद् ध्वनिरूपेण परिणमते, तथा च भवान् तेन सम्भाषितुं तथैव शक्नोति यथा केनचिद् भाषण-क्षमेण साकं कर्तुं पारयति | अवगच्छामि यत् Artificial Intelligence - इति कृत्रिम-प्रज्ञां वयम् अनेकासु विधासु समुपयोक्तुं प्रभवामः |
             Science and Technology - विज्ञानं प्रविधिश्च value neutral - इति मूल्य-निरपेक्षौ भवतः | अनयोः मूल्यं स्वतः नैव प्रोद्भवति| किञ्चिदपि यन्त्रं तथैव कार्याणि करिष्यति यथा वयम् अभिलषामः | परञ्च इदं हि अस्मत्सु निर्भरं यत् वयं यन्त्रैः किं किं कारयितुं वाञ्छामः | अत्र हि मानवीयम् उद्देश्यं महत्वपूर्णं भवति | मानव-मात्रस्य कल्याणार्थं विज्ञानस्य समुपयोगः!  मानव-जीवनस्य सर्वोच्चं शिखरं संस्प्रष्टुं विज्ञानस्य समुपयोगः !!   
        Light Bulb - विद्युत्-कन्दस्य आविष्कारकः Thomas Alva Edison निज-वैज्ञानिक-प्रयोगेषु नैकवारम् असफलः अवर्तत| एकदा विषयेsस्मिन् असौ पृष्टः तदासौ उदतरत् मया Light Bulb - इति विद्युत्-कन्दस्य अनुत्पादनस्य दश-सहस्रं पद्धतयः अन्विष्टाः”, अर्थात् Edison स्वीयाः असफलताः अपि निजशक्ति- रूपेण अङ्गीकृतवान् | संयोगाद् इदम् अस्मदीयं सौभाग्यं यत् अद्याहं महर्षि-अरविन्दस्य कर्मभूमौ ‘Auroville’- इत्यत्रास्मि | सः क्रान्तिकारि-रूपेण ब्रिटेन्-शासनं समाह्वयत्,  तद् विरुद्ध्य संघर्षम् अकरोत्, तेषां शासने अनेकविधमाशङ्कितवान् | एवं हि सः महर्षि-रूपेण, जीवनस्य प्रत्येकमपि प्रश्नानाम्  उत्तराणि अन्विष्य मानवतायाः मार्ग-प्रदर्शनमकरोत् |  
         सत्यं ज्ञातुं पौनःपुनिकी जिज्ञासा हि सुतरां महत्वपूर्णा अस्ति| वैज्ञानिकान्वेषणस्य कृतेsपि वास्तविकी प्रेरणा सैवास्ति | कथम्, किम्, केन प्रकारेण च इत्यादि-प्रश्नानाम् उत्तराणि नैव समुपलभ्यन्ते, तावत्-पर्यन्तं विश्रमेण नैव स्थातव्यम् | National Science Day - इति  राष्ट्रिय-विज्ञान-दिनावसरे अस्मदीयान् वैज्ञानिकान्, विज्ञान-सम्बद्धान् सर्वान् जनान् चाहं वर्धापयामि | अस्मदीया युव-सन्ततिः, सत्य-ज्ञानयोः अन्वेषणार्थं सततं प्रेरिता भवेत्, विज्ञानस्य साहाय्येन समाज-सेवायै अनारतं सम्प्रेरिता स्यात्, एतदर्थं मम भूरिशो मङ्गल-कामनाः विलसन्तुतराम् |
   मित्राणि, सङ्कट-काले safety, disaster - चेत्यादि-सुरक्षा-प्रबन्धन-विषयकाः अनेके सन्देशाः नैकवारं मां प्रति प्रेष्यन्ते, जनाः मां किमपि-किमपि विविधं लिखन्ति एव | पुणेतः श्रीमान्  वीन्द्र-सिंहः NarendraModi mobile App - इत्यत्र प्रेषितायां निज-टिप्पण्यां occupational safety - इति वृत्ति-विषयिणीं चर्चाम् अकरोत्| सः अलिखत् यत् अस्माकं देशे factories- constructions sites - चेति निर्माणी-निर्माण-स्थलेषु safety standards - सुरक्षा-मानकानि तावन्ति समीचीनानि नैव वर्तन्ते | आगामिनि मार्च-मासे चतुर्थे दिने भारतस्य National Safety Day- इति राष्ट्रिय-सुरक्षा-दिवसोsस्ति, तर्हि प्रधानमन्त्री स्वीये मन की बात- प्रसारणे सुरक्षा-विषये नूनं सूचयेत् येन जनेषु सुरक्षा-विषयिणी जागर्तिः विवर्धेत |
      यदा वयं public safety - इति सार्वजनिक-सुरक्षां चिन्तयामः तदा तथ्य-द्वयम् अतितरां महत्वपूर्णं भवति - प्रथमं pro-activeness - अर्थात् पूर्वतः एव सक्रियत्वं द्वितीयञ्च preparedness - अर्थात् सन्नद्धता|  सुरक्षा द्विप्रकारिका भवति - एका हि सा, या  आपत्काले आवश्यकी - safety during disasters  अपरा च, सा या दैनिक-जीवने आवश्यकी - safety in everyday life | यदि वयं दैनिक-जीवने सुरक्षा-विषये अवहिताः नैव स्मः, तामधिगन्तुं नैव शक्नुमश्चेत्, तदा आपदवसरे अस्याः उपलब्धता दुष्करा भवति|  वयं नैक-वारं मार्गेषु स्थापितानि सूचना-फलकानि पठामः येषु लिखितं भवति यत्

- अवधानता नास्ति चेत् - दुर्घटना भविष्यति”,
- का त्रुटिः हानिमापादयति,  स्मितं सुखञ्च छिनत्ति”,
- एतावत्त्वरया नैव संसारं त्यज, सुरक्षया सन्नद्धो भव
- सुरक्षां न किञ्चिदपि अवहेलय, नो चेत् जीवनं विनङ्क्ष्यति   

        इतः परम् अस्माकं जीवने एतेषां वाक्यानां न कदाचिदपि उपयोगो भवति | प्राकृतिकादो यदि त्यज्यन्ते चेत्, तदा अस्मदीये जीवने दुर्घटनानाम् अधिसंख्यं, अस्माकं कयाचिदपि त्रुट्या एव परिणमते | यदि वयं सावधानाः भवेम,  आवश्यक-नियमान् अनुसरेम चेत्, वयं स्वीयं जीवनन्तु रक्षितुं शक्नुमः एव, परञ्च अस्मदीयं समाजमपि विकरालाभ्यः दुर्घटनाभ्यो रक्षितुं शक्नुमः |  कदाचित्तु अस्माभिः दृष्टमपि यत् कार्य-स्थलेषु बहूनि सुरक्षा-सूत्राणि लिखितानि भवन्ति परञ्च प्रायेण पश्यामः यदेतानि सूत्राणि न मनागपि अनुस्रियन्ते | ममायम् आग्रहः यत् याः महानगर-पालिकाः, नगर-पालिकाः च अग्नि-शमन-वाहिनीं धारयन्ति, ताभिः प्रतिसप्ताहं वा प्रतिमासम् एकवारं विभिन्नेषु विद्यालयेषु गत्वा विद्यालयीयानां बालानां पुरतो विकत्थानाभ्यासः प्रदर्शनीयः | अमुना अभ्यासेन लाभ-द्वयं सेत्स्यति -  अग्निशमन-वाहिनी अपि अवधानार्थम् अभ्यस्ता भविता, नूतना सन्ततिः अपि शिक्षिता भविष्यति तथा चैतदर्थं नातिरिक्तो व्ययोsपि वर्तिता - वं हि, अभ्यासोsयं शिक्षा-क्रमत्वेन प्रवर्तिष्यते, तथा च, एतदर्थम् अहं सर्वदैव साग्रहं वदामि | आपत्-सन्दर्भे तु इदमेव चिन्तनीयं यत् भारतं भौगोलिक-दृष्ट्या जलवायु-दृष्ट्या च, विविधता-सम्भरितो देशोsस्ति | अमुना विकत्थानाभ्यासेन, देशेन अनेकाः प्राकृतिकाः मानव-निर्मिताश्च आपदः सम्मुखी-कृताः यासु रासायनिक्यः औद्योगि- क्यश्च दुर्घटनाः अन्यतमाः सन्ति | अद्य National Disaster Management Authority - अर्थात्  NDMA - राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं  देशे आपदां प्रबन्धनानि सन्नयति| भवतु नाम कुत्रचिद् भूकम्पो वा जलोपप्लवः, आहोस्वित् सामुद्रिकः झञ्झावातो वा भूस्खलनम् - एतादृशीषु विभिन्नासु आपत्सु, सुरक्षा-साहाय्य-कार्यार्थं राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं त्वरया सम्प्राप्नोति| एतैः दिशा-निर्देश-सूत्राणि प्रसारितानि सन्ति, युगपदेव, ते capacity building - इति क्षमता-वर्धनार्थं सततं प्रशिक्षण-कार्याणि अपि कुर्वन्ति | जलोपप्लव-सामुद्रिक- झञ्झावातादि-युतेषु  जनपदेषु स्वयंसेविनां प्रशिक्षणाय अपि आपदा-मित्रम्- नाम्ना प्राथमिकाः प्रयासाः विहिताः | प्रशिक्षणस्य जागरूकतायाः चात्र महत्वपूर्णा भूमिकास्ति |  
           इतः वर्ष-द्वयं वर्ष-त्रयं वा पूर्वं heat wave - घर्माघातेन प्रतिवर्षं सहस्रशो जनाः विगत-प्राणाः जायन्ते स्म | ततः परं राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं घर्माघातानां  प्रबन्धनार्थं कार्यशालाः आयोजितवत्, जनेषु जागर्तिं प्रसारयितुम्  अभियानञ्च प्रावर्तयत्|  ऋतु-विज्ञान-विभागः समीचीनं पूर्वानुमानं व्यदधात् | सर्वेषां सहभागितायाः कारणात् सुपरिणामः अवाप्तः |विगते वर्षे घर्माघातेन म्रियमाणानां संख्या अप्रत्याशितरूपेण अपचीय प्रायेण विंशत्यधिक-द्विशत-मिता [220] सञ्जाता | अनेन ज्ञायते यत् वयं यदि सुरक्षायै प्राथमिकतां दद्मश्चेत्, नूनं वयं सुरक्षामवाप्तुं शक्नुमः | समाजे एतादृक्-कार्य-कर्तारः अगणिताः जनाः स्युः,  सामाजिक-संघटनं भवेत्, जागरूकाः  नागरिकाः भवेयुः - ये हि कुत्रचिदपि आपत्काले त्वरया सुरक्षा-साहाय्य-कार्याणि विधातुं संलग्नाः भवन्ति, तादृशान् अहं हृदयेन प्रशंसामि| अपि चैतादृशानां अज्ञात-नायकानां संख्या कथमपि न्यूना नास्ति | अस्माकं Fire and Rescue Services, National Disaster Response Forces, सशस्त्र-सेनाः, अर्ध-सैन्य-बलानि, चैते संकट-काले साहाय्यार्थं द्रुतं प्राप्यमाणाः वीराः योद्धारः निज-जीवितानि अविगणय्य जनानां साहाय्यं कुर्वन्ति | NCC, Scouts - सदृशानि संघटनानि अपि एतानि कार्याणि कुर्वन्ति, युगपदेव प्रशिक्षणमपि लभन्ते | विगतेषु दिनेषु अस्माभिः अयमपि प्रयासः आरब्धः यज्जगतो देशाः यथा joint military exercise - इति संयुक्त-सैन्याभ्यासं कुर्वन्ति तथैव कथन्न एते देशाः सम्भूय Disaster Management -चेति आपत्-प्रबन्धनार्थं संयुक्ताभ्यासं न कुर्युः ?  भारतेन विषयोsयं सन्नीतः BIMSTEC, बांग्लादेश, भारत, म्यांमार, श्रीलंका, थाईलैंड, भूटान-नेपाल-प्रभृतीनां देशानां joint disasters management exercise - इति संयुक्तापत्-प्रबन्धनाभ्यासः अपि कारितः, अयं हि प्रप्रथमः बृहत्-मानवीय-प्रयोगः आसीत् | अस्माभिः risk conscious society - इति सङ्कटावहित-समाजेन भाव्यम् | अस्माकं संस्कृतौ वयं मूल्य-रक्षण-विषये तु बहुधा विचारयामः, परञ्च अस्माभिः values of safety -  सुरक्षा-मूल्यमपि सम्यक्तया अवगन्तव्यम् | स्वीय-जीवनस्य अभिन्नाङ्गत्वेन मूल्यमिदं स्वीकरणीयम् | यदि वयं स्वभावतया अवहिताः नैव स्मः तथा च, विमान-यात्रावसरे प्रदर्श्यमानानां सुरक्षोपायानां विषये एकाग्रतया नैव शृण्मः अवलोकयामश्चेत्, सुरक्षा-विषयमङ्गी-कर्तुं नैव प्रभवामः | एवं हि जीवनस्य प्रत्येकमपि क्षेत्रे अस्माकीनोsनुभवो भवति | अस्माभिः नैवं विचारणीयं यत् सुरक्षैषा कस्यचिद् अपरस्य कृते वर्तते, यदि वयं सर्वे स्व-स्व-सुरक्षा-विषये अवहिताः भवेम चेत्, समाजस्य सुरक्षाभावोsपि अत्र अन्तर्हितो जायते|
         मम प्रियाः देशवासिनः, ऐषमः महाय-व्यय-पत्रके स्वच्छ-भारत-कार्यक्रमान्तर्गतं ग्रामेभ्यः जैव-वाति-माध्यमेन waste to wealth - अवकारात् समृद्धिं प्रति, तथा च, waste to energy - अवकारात् ऊर्जां प्रति रचनात्मक-कार्याणि सबलं प्रतिपादितानि सन्ति |  एतदर्थं प्राथमिकतया प्रयतितम्, तथाच, ‘गोबर-धन’ इति नाम्ना कार्यक्रमोsयं अभिहितः, ‘GOBAR-Dhan’ - अर्थात्  Galvanizing Organic Bio-Agro Resources | अस्याः ‘GOBAR-Dhan’ - योजनायाः उद्देश्यमस्ति, ग्रामाणां शुद्धीकरणम्, तथा च,  शूनां पुरीषाणि, क्षेत्राणां घट्टान् अपशिष्टान् च दार्थान् COMPOST-BIO-GAS - चेति उर्वरक-जैव-वाति-रूपेण परिवर्त्य,  तेभ्यः धनस्य ऊर्जायाः च उत्पादनम् | भारते पशूनां संख्या हि अशेष-जगति सर्वाधिका अर्थात् प्रायेण त्रिंशत्-कोटि-मिता वर्तते, अपि च, पशु-पुरीषोत्पादनं प्रतिदिनं प्रायेण त्रिंशल्लक्ष-टन-मितं भवति |  केचन यूरोपीय-देशाः चीन-देशश्च पशु-पुरीषाणिन्यान्  जैविकापशिष्ट-पदार्थान् उपयोज्य ऊर्जाम् उत्पादयन्ति परञ्च भारते अस्य पूर्ण-क्षमता नैवोपयोज्यते स्म | ‘स्वच्छ भारत मिशन ग्रामीण- इति योजनायाः अन्तर्गतं सम्प्रति वयं अस्यां दिशि अग्रेसरामः|
          पशूनां पुरीषाणि, कृषितः निष्काश्यमानोsवकरः, पाकशालायाः अपस्करः, चैतानि सर्वाणि उपयोज्य जैव-वात्याधृताम् ऊर्जां विनिर्मातुं लक्ष्यं निर्धारितमस्ति | ‘गोबर-धन- योजनायाः अन्तर्गतं ग्रामीण-भारतस्य कृषकाः, भगिन्यः, भ्रातरश्च प्रोत्साहयिष्यन्ते | ते पशु-पुरीषम् अवकरञ्च केवलम् अपशिष्टमिति नैव, अपि तु आयस्रोतस्त्वेन अभिमन्येरन् | ‘गोबर- धन-योजनया  ग्रामीण-क्षेत्राणि अनेकविधानि लाभानि अवाप्स्यन्ति |  ग्रामाणां स्वच्छता-सन्धारणाय साहाय्यम् अवाप्स्यते | शूनाम् आरोग्यं  भद्रतरं भविता तथा च, उत्पादकता विवर्धिता | जैव-वात्या भोजन-पाकस्य प्रकाशस्य च कृते ऊर्जा-विषयिणी आत्मनिर्भरता एधिता | कृषकाः पशुपालकाः च आय-विवर्धने साहाय्यम् अवाप्स्यन्ति |  Waste collection, transportation, - चेति अवकर-संचयन-परिवहनयोः जैववाति-विक्रयस्य च कृते नूतनाः वृत्त्यवसराः प्राप्स्यन्ते| ‘गोबर-धन-योजनायाः सुचारु-व्यवस्थापनार्थम् एकः online इति सद्यस्कः विक्रय-मञ्चः अपि विनिर्मास्यते यो हि कृषकान् विक्रेतृभिः सार्धं संयोजयिष्यति येन कृषकाः पशु-पुरीषस्य कृषेः अवकरस्य च समुचितं मूल्यम् अवाप्नुयुः | अहं उद्यमिनः, विशेषेण च ग्रामीण-भारते निवसतीः मम भगिनीः साग्रहं निवेदयामि यत् भवत्यः अग्रे आयान्तु | Self Help Group - स्वयं-सहायि-समूहान् निर्मीय, सहकारिसमितीश्च विरचय्य अस्य अवसरस्य पूर्ण-लाभं प्राप्नुयुः| clean energy and green jobs- इत्यान्दोलनस्य सहभागित्वार्थम् अहं भवतो भवत्यश्च आमन्त्रयामि|स्वीये ग्रामे अवकरं धनागमत्वेन परिवर्तयितुं पशु-पुरीषात् गोबर-धनमर्जितुं च भवन्तः प्रयतेरन् | 
    मम प्रियाः देशवासिनः, अद्य-पर्यन्तं  वयं संगीत-समारोह-खाद्य-समारोह-चलचित्र-समारोह-प्रभृति-नाना-समारोह-विषये शृण्वन्तः आस्मः| परञ्च छत्तीसगढे रायपुरे अनुपमं प्रयत्य राज्यस्य प्रप्रथमः कचरा-महोत्सव- इति अवकर-महोत्सवः आयोजितः| रायपुर नगर निगम द्वारा आयोजितस्य अस्य महोत्सवस्य उद्देश्यमासीत् - स्वच्छता-विषयिणी जागरूकता | नगरस्य अवकरस्य रचनात्मक-समुपयोगस्य अवकरस्य पुनःप्रयोगस्य च विभिन्न-पद्धतीनां विषये जागरूकता-विवर्धनम् | अस्य महोत्सवस्य अवसरे नाना कार्याणि विहितानि येषु छात्राः आबाल-वृद्धाश्च सहभागित्वमावहन् | रायपुरेण प्रेरितेषु  अन्येषु अपि जनपदेषु पृथक्-पृथक्-प्रकारकाः अवकरोत्सवाः संपन्नाः | विशेषेण विद्यालयीयाः बालाः यैः समुत्साहेन सहभागित्वं निर्व्यूढम्, तद्धि अद्भुतमासीत् | Waste management- इति अवकर-प्रबन्धनस्य स्वच्छतायाश्च महत्वं येन अभिनव-प्रकारेण महोत्सवेsस्मिन् प्रदर्शितम्, तदर्थम्, रायपुर नगर निगमाय, अशेषस्य छत्तीसगढ़स्य नागरिकान् अत्रत्य-प्रशासनाय अधिकारिभ्यश्च भूरिशो वर्धापनानि|
    प्रतिवर्षं मार्च-मासे अष्टमे दिने अंतर्राष्ट्रि-महिला-दिवसः आमान्यते | देशे जगति अन्यत्र च एतद्-विषयकाः अनेके कार्यक्रमाः आयोज्यन्ते | अस्मिन् दिने देशे नारी शक्ति पुरस्कारैः एतादृश्यः महिलाः सम्मान्यन्ते याः विगते काले भिन्न-भिन्न-क्षेत्रेषु अनुकरणीय-कार्यमनुष्ठितवत्यः | साम्प्रतं देशोsयं महिला-विकासात् परं woman-lead development- इति महिला-सन्नीत-विकासं प्रति अग्रेसरति | अवसरेsस्मिन् स्वामिनो विवेकानन्दस्य वचान्सि स्मरामि | सः अवोचत् -  ‘the idea of perfect womanhood is perfect independence’- अर्थात् पूर्ण-नारीत्वस्य विचारः एव सम्पूर्णा स्वाधीनतास्ति |
     सपाद-शत-वर्षेभ्यः प्राक् स्वामि-पादेन उदीरितोsयं विचारः भारतीय-संस्कृतौ नारी-क्तेः चिन्तनम् अभिव्यञ्जयति | सम्प्रति, आर्थिक-सामाजिक-जीवनस्य प्रत्येकमपि क्षेत्रे महिलानां तुल्य-सहभागितायाः निर्धारणं हि अस्माकं सर्वेषां दायित्वमस्ति| वयं तस्याः परम्परायाः अङ्गत्वेन स्मः यत्र, पुरुषाणाम् अभिज्ञानं नारीभिः भवति स्म | यशोदा-नन्दनः, कौशल्या-नन्दनः, गान्धारी- पुत्रः, एतादृगेव आसीत् अभिज्ञानं कस्यचित् पुत्रस्य| अद्यत्वे अस्माकं नारी-शक्तिः स्वीयैः कार्यैः आत्मबलस्य आत्मविश्वासस्य च परिचयं प्रादात् | आत्मानं आत्मनिर्भरां व्यदधात् | ताः स्वयन्तु अग्रेसृताः सन्ति, युगपदमेव, राष्ट्रं समाजमपि च अग्रे सन्नेतुं नूतनं शिखरञ्च प्रापयितुं कार्याणि अकुर्वन् | परमार्थेन अस्माकं नूतन-भारतस्य इदमेव स्वप्नमस्ति - यत्र नारी समर्था शक्ता च स्यात्, देशस्य समग्र-विकासे समानतया सहभागिनी भवेत् |  विगतेषु दिनेषु केनचित् महोदयेन अतितरां भद्रः परामर्शः प्रदत्तः| तेन परामर्शितं यत् मार्च-मासीये अष्टम-दिनाङ्के, ‘महिला-दिवसस्य आयोजनार्थं विभिन्नाः कार्यक्रमाः आयोज्यन्ते | किं प्रत्येकमपि ग्रामे पुरे वा यत्र मातरो भगिन्यो वा शतं वर्षाणि पूर्णतां नीतवत्यः, तादृशीनां सम्मान-कार्यक्रमाः  आयोजयितुं शक्यन्ते वा ? किं तेषु च दीर्घ-जीवनस्य अनुभव-वर्णनं कर्तुं शक्यते वा ? विचारोsयं मह्यम् अरोचत, अतः भवतः प्रति प्रापयामि | नारी-क्तिः किं किं कर्तुं शक्नोति ? तद्-विषये भवन्तः भूयान्सि उदाहरणानि अवाप्स्यन्ति | नातिचिरमेव, झारखण्डतः मया वृत्तम् अधिगतम् | ‘स्वच्छ भारत अभियानस्यअन्तर्गतं झारखण्डे  प्रायेण [15] पञ्चदश-लक्षं महिलाः सम्भूय मासावधिकं स्वच्छताभियानं प्रचालितवत्यः | ऐषमः जान्युआरिमासे षड्विंश-दिनाङ्कतः आरब्धस्य अस्य अभियानस्य अंतर्गतं केवलं विंशतौ दिनेष्वेव एताः महिलाः सप्तति-सहस्राधिक-लक्ष-मितान् शौचालयान् निर्मीय नूतनं कीर्तिमानं प्रतिष्ठापितवत्यः |  भवन्तः कल्पयितुं शक्नुवन्ति यत् एषा कियती महती घटना वर्ततेश ! झारखण्डस्य एताः महिलाः प्रदर्शितवत्यः यत् नारी-क्तिः, स्वच्छ-भारतस्य  अभियानस्य तादृशी शक्तिः अस्ति या हि, सामान्य-जीवने स्वच्छतायाः अभियानम्, स्वच्छतायाः संस्कारान् च प्रभावितया जन-सामान्यस्य स्वभावे नूनं परिवर्तयिष्यति |
    भ्रातरो भगिन्यश्च, सद्यः दिवस-द्वय-पूर्वमेव अहं वार्ताः अवलोकयन् आसम् यत् एलीफेंटा-द्वीपे ग्राम-त्रये स्वाधीनतायाः सप्ततेः वर्षाणाम् अनन्तरम्, विद्युत् प्राप्तास्ति तथा च, एतदर्थं तत्रत्याः जनाः र्षोल्लासेन समुत्साह-सन्दोहेन च प्रसन्नाः प्रतीयन्ते स्म | भवन्तः सर्वे सम्यक्तया अवगच्छन्ति यत् एलीफेंटा-द्वीपः, मुंबईतः समुद्रे एव श-किलोमीटर-मितान्त- रालेन दूरे वर्तते | अयं द्वीपः पर्यटनस्य अतितरां बृहदाकर्षक-केन्द्रत्वेन अस्ति | एलीफेंटा-गुहाः, UNESCO -इत्यस्य विश्व-रिक्थ-रूपाः सन्ति | तत्र प्रतिदिनं देश-विदेशेभ्यः बृहन्-मात्रिकाः पर्यटकाः आयान्ति | इदं हि महत्वपूर्णम्, पर्यटक-केन्द्रं वर्तते | अहं तत्रत्यं प्रशासनम्, जनान् च वर्धापयामि |प्रसीदामि-तरां यत् इतः परं एलीफेंटा-ग्रामः एलीफेंटा-गुहाश्च विद्युदः प्रकाशेन सततं प्रकाशिष्यन्ते |  नैतत् केवलं विद्युद्-वृत्तम्, अपि तु, विकास-क्रमस्य अभिनवः प्रारम्भः अस्ति | देशवासिनां जीवनानि प्रकाशितानि स्युः, तेषां जीवनेषु प्रसन्नता भवेत् चेत्यतः परं किमधिकं तोषप्रदं सुखप्रदं वा स्यात् ?
     मम प्रियाः भ्रातरः भगिन्यश्च, नातिचिरम्, वयं शिवरात्रि-महोत्सवम् आयोजितवन्तः | इतः परं मार्च-मासे शस्य-प्रफुल्लितानि क्षेत्राणि, सुवर्ण-निभाः क्रीडन्तः गोधूमाग्रभागाः तथा च मानसानन्द-दायिन्यः आम्र-मञ्जर्यः तासाञ्च शोभा - एतत्-सर्वमपि  अस्य मासस्य वैशिष्ट्यमस्ति | परञ्च, मासोsयं होलिका-पर्वणः मासः इति कृत्वा अस्मभ्यः सर्वेभ्यः प्रियः अतितरां रोचते च | मार्च-मासे द्वितीये दिने अशेष-देशः होलिकोत्सवं हर्षोल्लासेन आयोजयिष्यति | होलिका-पर्वणि यावत् महत्वम्, रंगानां अस्ति, तावदेव महत्वम्, होलिका-दहनस्यापि वर्तते यतो हि दिनमिदं दुर्वृत्तं अग्नि-राशौ दाहयित्वा तन्निरसनस्य दिनमस्ति | होलिका-पर्व, सर्वान् मनोमालिन्य-भावान् अपाकृत्य विस्मृत्य च सम्भूय उपवेशनस्य, मिथः सुखम् आन्ञ्च संभाजयितुं शुभावसरत्वेन वर्तते, एतच्च, प्रेम्नः एकतायाः बन्धुत्वस्य च सन्देशं ददाति |  भवतः सर्वान् देशवासिनः होलिका-पर्वणः रंगोत्सवस्य च भूयान्सि अभिनन्दनानि, मङ्गल-कामनाश्च, रंग-पूर्णाः शुभकामनाः | र्वेदं अस्माकं देशवासिनां जीवने विविध-वर्णयुतां प्रसन्नताम् आपूरयेत् इत्येव  हार्दिकी शुभकामना | मम प्रियाः देशवासिनः, कोटिशो धन्यवादाः,  नमस्कारः |          *****  
                      - डॉ.बलदेवानन्द-सागरः